Бхайрава-аштоттара-шата-намавали

Материал из Шайвавики
Перейти к: навигация, поиск

Шаблон:Center Шаблон:Center

Новый раздел[править | править код]

Подраздел[править | править код]

Подподраздел[править | править код]

॥ श्रीगणेशाय नमः ॥.[править | править код]

॥ श्रीउमामहेश्वराभ्यां नमः ॥

॥ श्रीगुरवे नमः ॥

॥ श्रीभैरवाय नमः ॥


सकलकलुषहारी धूर्तदुष्टान्तकारी
सुचिरचरितचारी मुण्डमौञ्जीप्रचारी ।

करकलितकपाली कुण्डली दण्डपाणिः स भवतु सुखकारी भैरवो भावहारी ॥ १॥

विविधरासविलासविलासितं नववधूरवधूतपराक्रमम् । मदविधूणितगोष्पदगोष्पदं भवपदं सततं सततं स्मरे ॥ २॥

अमलकमलनेत्रं चारुचन्द्रावतंसं सकलगुणगरिष्ठं कामिनीकामरूपम् । परिहृतपरितापं डाकिनीनाशहेतुं भज जन शिवरूपं भैरवं भूतनाथम् ॥ ३॥

सबलबलविघातं क्षेत्रपालैकपालं

   विकटकटिकरालं ह्यट्टहासं विशालम् । 

करगतकरवालं नागयज्ञोपवीतं

   भज जन शिवरूपं भैरवं भूतनाथम् ॥ ४॥

भवभयपरिहारं योगिनीत्रासकारं

   सकलसुरगणेशं चारुचन्द्रार्कनेत्रम् । 

मुकुटरुचिरभालं मुक्तमालं विशालं

   भज जन शिवरूपं भैरवं भूतनाथम् ॥ ५॥

चतुर्भुजं शङ्खगदाधरायुधं

   पीताम्बरं सान्द्रपयोदसौभगम् । 

श्रीवत्सलक्ष्मीं गलशोभिकौस्तुभं

   शीलप्रदं शङ्कररक्षणं भजे ॥ ६॥

लोकाभिरामं भुवनाभिरामं

   प्रियाभिरामं यशसाभिरामम् । 

कीर्त्याभिरामं तपसाऽभिरामं

   तं भूतनाथं शरणं प्रपद्ये ॥ ७॥

आद्यं ब्रह्मसनातनं शुचिपरं सिद्धिप्रदं कामदं

   सेव्यं भक्तिसमन्वितं हरिहरैः सहं साधुभिः । 

योग्यं योगविचारितं युगधरं योग्याननं योगिनं

   वन्देऽहं सकलं कलङ्करहितं सत्सेवितं भैरवम् ॥ ८॥

॥ फलश्रुतिः ॥

भैरवाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः । दुःस्वप्ननाशनं तस्य वाञ्छितर्थफलं भवेत् ॥ ९॥

राजद्वारे विवादे च सङ्ग्रामे सङ्कटेत्तथा । राज्ञाक्रुद्धेन चाऽऽज्ञप्ते शत्रुबन्धगतेतथा दारिद्रश्चदुःखनाशाय पठितव्यं समाहितैः । न तेषां जायते किञ्चिद दुर्लभं भुवि वाञ्छितम् ॥१०॥

॥ इति श्रीस्कान्दे महापुराणे पञ्चमेऽवन्तीखण्डे अवन्तीक्षेत्रमाहात्म्याऽऽन्तर्गते श्रीभैरवाष्टकं संपूर्णम् ॥