| | width="50%"|स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात् । ब्रसू-२,१.१ ।
इतरेषां चानुपलब्धेः । ब्रसू-२,१.२ ।
एतेन योगः प्रत्युक्तः । ब्रसू-२,१.३ ।
न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् । ब्रसू-२,१.४ ।
अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम् । ब्रसू-२,१.५ ।
दृश्यते तु । ब्रसू-२,१.६ ।
असद् इति चेन् न प्रतिषेधमात्रत्वात् । ब्रसू-२,१.७ ।
अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम् । ब्रसू-२,१.८ ।
न तु दृष्टान्तभावात् । ब्रसू-२,१.९ ।
स्वपक्षदोषाच् च । ब्रसू-२,१.१० ।
तर्काप्रतिष्ठानाद् अपि । ब्रसू-२,१.११ ।
अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः । ब्रसू-२,१.१२ ।
एतेन शिष्टापरिग्रहा अपि व्याख्याताः । ब्रसू-२,१.१३ ।
भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत् । ब्रसू-२,१.१४ ।
तदनन्यत्वम् आरम्भणशब्दादिभ्यः । ब्रसू-२,१.१५ ।
भावे चोपलब्धेः । ब्रसू-२,१.१६ ।
सत्वाच् चापरस्य । ब्रसू-२,१.१७ ।
असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच् च । ब्रसू-२,१.१८ ।
पटवच् च । ब्रसू-२,१.१९ ।
यथा च प्राणादिः । ब्रसू-२,१.२० ।
इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः । ब्रसू-२,१.२१ ।
अधिकं तु भेदनिर्देशात् । ब्रसू-२,१.२२ ।
अश्मादिवच् च तदनुपपत्तिः । ब्रसू-२,१.२३ ।
उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि । ब्रसू-२,१.२४ ।
देवादिवद् अपि लोके । ब्रसू-२,१.२५ ।
कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा । ब्रसू-२,१.२६ ।
श्रुतेस् तु शब्दमूलत्वात् । ब्रसू-२,१.२७ ।
आत्मनि चैवं विचित्राश् च हि । ब्रसू-२,१.२८ ।
स्वपक्षदोषाच् च । ब्रसू-२,१.२९ ।
सर्वोपेता च तद्दर्शनात् । ब्रसू-२,१.३० ।
विकरणत्वान् नेति चेत् तद् उक्तम् । ब्रसू-२,१.३१ ।
न प्रयोजनवत्त्वात् । ब्रसू-२,१.३२ ।
लोकवत् तु लीलाकैवल्यम् । ब्रसू-२,१.३३ ।
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति । ब्रसू-२,१.३४ ।
न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च । ब्रसू-२,१.३५ ।
सर्वधर्मोपपत्तेश् च । ब्रसू-२,१.३६ ।
रचनानुपपत्तेश् च नानुमानं प्रवृत्तेश् च । ब्रसू-२,२.१ ।
पयोऽम्बुवच् चेत् तत्रापि । ब्रसू-२,२.२ ।
व्यतिरेकानवस्थितेश् चानपेक्षत्वात् । ब्रसू-२,२.३ ।
अन्यत्राभावाच् च न तृणादिवत् । ब्रसू-२,२.४ ।
पुरुषाश्मवद् इति चेत् तथापि । ब्रसू-२,२.५ ।
अङ्गित्वानुपपत्तेश् च । ब्रसू-२,२.६ ।
अन्यथानुमितौ च ज्ञशक्तिवियोगात् । ब्रसू-२,२.७ ।
अभ्युपगमेऽप्य् अर्थाभावात् । ब्रसू-२,२.८ ।
विप्रतिषेधाच् चासमञ्जसम् । ब्रसू-२,२.९ ।
महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम् । ब्रसू-२,२.१० ।
उभयथापि न कर्मातस्तदभावः । ब्रसू-२,२.११ ।
समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः । ब्रसू-२,२.१२ ।
नित्यम् एव च भावात् । ब्रसू-२,२.१३ ।
रूपादिमत्त्वाच् च विपर्ययो दर्शनात् । ब्रसू-२,२.१४ ।
उभयथा च दोषात् । ब्रसू-२,२.१५ ।
अपरिग्रहाच् चात्यन्तम् अनपेक्षा । ब्रसू-२,२.१६ ।
समुदाय उभयहेतुकेऽपि तदप्राप्तिः । ब्रसू-२,२.१७ ।
इतरेतरप्रत्ययत्वाद् उपपन्नम् इति चेन् न सङ्घातभावानिमित्तत्वात् । ब्रसू-२,२.१८ ।
उत्तरोत्पादे च पूर्वनिरोधात् । ब्रसू-२,२.१९ ।
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा । ब्रसू-२,२.२० ।
प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात् । ब्रसू-२,२.२१ ।
उभयथा च दोषात् । ब्रसू-२,२.२२ ।
आकाशे चाविशेषात् । ब्रसू-२,२.२३ ।
अनुस्मृतेश् च । ब्रसू-२,२.२४ ।
नासतोऽदृष्टत्वात् । ब्रसू-२,२.२५ ।
उदासीनानाम् अपि चैवं सिद्धिः । ब्रसू-२,२.२६ ।
नाभाव उपलब्धेः । ब्रसू-२,२.२७ ।
वैधर्म्याच् च न स्वप्नादिवत् । ब्रसू-२,२.२८ ।
न भावोऽनुपलब्धेः । ब्रसू-२,२.२९ ।
सर्वथानुपपत्तेश् च । ब्रसू-२,२.३० ।
नैकस्मिन्न् असम्भवात् । ब्रसू-२,२.३१ ।
एवं चात्माकार्त्स्न्यम् । ब्रसू-२,२.३२ ।
न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः । ब्रसू-२,२.३३ ।
अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः । ब्रसू-२,२.३४ ।
पत्युर् असामञ्जस्यात् । ब्रसू-२,२.३५ ।
अधिष्ठानानुपपत्तेश् च । ब्रसू-२,२.३६ ।
करणवच् चेन् न भोगादिभ्यः । ब्रसू-२,२.३७ ।
अन्तवत्त्वम् असर्वज्ञता वा । ब्रसू-२,२.३८ ।
उत्पत्त्यसंभवात् । ब्रसू-२,२.३९ ।
न च कर्तुः करणम् । ब्रसू-२,२.४० ।
विज्ञानादिभावे वा तदप्रतिषेधः । ब्रसू-२,२.४१ ।
विप्रतिषेधाच् च । ब्रसू-२,२.४२ ।
न वियदश्रुतेः । ब्रसू-२,३.१ ।
अस्ति तु । ब्रसू-२,३.२ ।
गौण्यसंभवाच् छब्दाच् च । ब्रसू-२,३.३ ।
स्याच् चैकस्य ब्रह्मशब्दवत् । ब्रसू-२,३.४ ।
प्रतिज्ञाहानिर् अव्यतिरेकात् । ब्रसू-२,३.५ ।
शब्देभ्यः । ब्रसू-२,३.६ ।
यावद्विकारं तु विभागो लोकवत् । ब्रसू-२,३.७ ।
एतेन मातरिश्वा व्याख्यातः । ब्रसू-२,३.८ ।
असंभवस् तु सतोऽनुपपत्तेः । ब्रसू-२,३.९ ।
तेजोऽतस् तथा ह्य् आह । ब्रसू-२,३.१० ।
आपः । ब्रसू-२,३.११ ।
पृथिवी । ब्रसू-२,३.१२ ।
अधिकाररूपशब्दान्तरेभ्यः । ब्रसू-२,३.१३ ।
तदभिध्यानाद् एव तु तल्लिङ्गात् सः । ब्रसू-२,३.१४ ।
विपर्ययेण तु क्रमोऽत उपपद्यते च । ब्रसू-२,३.१५ ।
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात् । ब्रसू-२,३.१६ ।
चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात् । ब्रसू-२,३.१७ ।
नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः । ब्रसू-२,३.१८ ।
ज्ञोऽत एव । ब्रसू-२,३.१९ ।
उत्क्रान्तिगत्यागतीनाम् । ब्रसू-२,३.२० ।
स्वात्मना चोत्तरयोः । ब्रसू-२,३.२१ ।
नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात् । ब्रसू-२,३.२२ ।
स्वशब्दोन्मानाभ्यां च । ब्रसू-२,३.२३ ।
अविरोधश् चन्दनवत् । ब्रसू-२,३.२४ ।
अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि । ब्रसू-२,३.२५ ।
गुणाद्वा लोकवत् । ब्रसू-२,३.२६ ।
व्यतिरेको गन्धवत् तथा हि दर्शयति । ब्रसू-२,३.२७ ।
पृथगुपदेशात् । ब्रसू-२,३.२८ ।
तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् । ब्रसू-२,३.२९ ।
यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात् । ब्रसू-२,३.३० ।
पुंस्त्वादिवत् त्व् अस्य सतोऽभिव्यक्तियोगात् । ब्रसू-२,३.३१ ।
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा । ब्रसू-२,३.३२ ।
कर्ता शास्त्रार्थवत्त्वात् । ब्रसू-२,३.३३ ।
उपादानाद् विहारोपदेशाच् च । ब्रसू-२,३.३४ ।
व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः । ब्रसू-२,३.३५ ।
उपलब्धिवदनियमः । ब्रसू-२,३.३६ ।
शक्तिविपर्ययात् । ब्रसू-२,३.३७ ।
समाध्यभावाच् च । ब्रसू-२,३.३८ ।
यथा च तक्षोभयथा । ब्रसू-२,३.३९ ।
परात् तु तच्छ्रुतेः । ब्रसू-२,३.४० ।
कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । ब्रसू-२,३.४१ ।
अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके । ब्रसू-२,३.४२ ।
मन्त्रवर्णात् । ब्रसू-२,३.४३ ।
अपि स्मर्यते । ब्रसू-२,३.४४ ।
प्रकाशादिवत् तु नैवं परः । ब्रसू-२,३.४५ ।
स्मरन्ति च । ब्रसू-२,३.४६ ।
अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत् । ब्रसू-२,३.४७ ।
असन्ततेश् चाव्यतिकरः । ब्रसू-२,३.४८ ।
आभास एव च । ब्रसू-२,३.४९ ।
अदृष्टानियमात् । ब्रसू-२,३.५० ।
अभिसन्ध्यादिष्व् अपि चैवम् । ब्रसू-२,३.५१ ।
प्रदेशभेदाद् इति चेन् नान्तर्भावात् । ब्रसू-२,३.५२ ।
तथा प्राणाः । ब्रसू-२,४.१ ।
गौण्यसंभवात् तत्प्राक् श्रुतेश् च । ब्रसू-२,४.२ ।
तत्पूर्वकत्वाद् वाचः । ब्रसू-२,४.३ ।
सप्त गतेर् विशेषितत्वाच् च । ब्रसू-२,४.४ ।
हस्तादयस् तु स्थितेऽतो नैवम् । ब्रसू-२,४.५ ।
अणवश् च । ब्रसू-२,४.६ ।
श्रेष्ठश् च । ब्रसू-२,४.७ ।
न वायुक्रिये पृथगुपदेशात् । ब्रसू-२,४.८ ।
चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः । ब्रसू-२,४.९ ।
अकरणत्वाच् च न दोषस् तथा हि दर्शयति । ब्रसू-२,४.१० ।
पञ्चवृत्तिर् मनोवत् व्यपदिश्यते । ब्रसू-२,४.११ ।
अणुश् च । ब्रसू-२,४.१२ ।
ज्योतिर् आद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् । ब्रसू-२,४.१३ ।
तस्य च नित्यत्वात् । ब्रसू-२,४.१४ ।
त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात् । ब्रसू-२,४.१५ ।
भेदश्रुतेर् वैलक्षण्याच् च । ब्रसू-२,४.१६ ।
संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात् । ब्रसू-२,४.१७ ।
मांसादि भौमं यथाशब्दमितरयोश् च । ब्रसू-२,४.१८ ।
वैशेष्यात् तु तद्वादस् तद्वादः । ब्रसू-२,४.१९ ।
|| width="50%"|lokavat tu līlākaivalyam . brasū-2,1.33 .
vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati . brasū-2,1.34 .
na karmāvibhāgād iti cen nānāditvād upapadyate cāpy upalabhyate ca . brasū-2,1.35 .
sarvadharmopapatteś ca . brasū-2,1.36 .
racanānupapatteś ca nānumānaṁ pravṛtteś ca . brasū-2,2.1 .
payo'mbuvac cet tatrāpi . brasū-2,2.2 .
vyatirekānavasthiteś cānapekṣatvāt . brasū-2,2.3 .
anyatrābhāvāc ca na tṛṇādivat . brasū-2,2.4 .
puruṣāśmavad iti cet tathāpi . brasū-2,2.5 .
aṅgitvānupapatteś ca . brasū-2,2.6 .
anyathānumitau ca jñaśaktiviyogāt . brasū-2,2.7 .
abhyupagame'py arthābhāvāt . brasū-2,2.8 .
vipratiṣedhāc cāsamañjasam . brasū-2,2.9 .
mahaddīrghavad vā hrasvaparimaṇḍalābhyām . brasū-2,2.10 .
ubhayathāpi na karmātastadabhāvaḥ . brasū-2,2.11 .
samavāyābhyupagamāc ca sāmyād anavasthiteḥ . brasū-2,2.12 .
nityam eva ca bhāvāt . brasū-2,2.13 .
rūpādimattvāc ca viparyayo darśanāt . brasū-2,2.14 .
ubhayathā ca doṣāt . brasū-2,2.15 .
aparigrahāc cātyantam anapekṣā . brasū-2,2.16 .
samudāya ubhayahetuke'pi tadaprāptiḥ . brasū-2,2.17 .
itaretarapratyayatvād upapannam iti cen na saṅghātabhāvānimittatvāt . brasū-2,2.18 .
uttarotpāde ca pūrvanirodhāt . brasū-2,2.19 .
asati pratijñoparodho yaugapadyamanyathā . brasū-2,2.20 .
pratisaṁkhyāpratisaṁkhyānirodhāprāptir avicchedāt . brasū-2,2.21 .
ubhayathā ca doṣāt . brasū-2,2.22 .
ākāśe cāviśeṣāt . brasū-2,2.23 .
anusmṛteś ca . brasū-2,2.24 .
nāsato'dṛṣṭatvāt . brasū-2,2.25 .
udāsīnānām api caivaṁ siddhiḥ . brasū-2,2.26 .
nābhāva upalabdheḥ . brasū-2,2.27 .
vaidharmyāc ca na svapnādivat . brasū-2,2.28 .
na bhāvo'nupalabdheḥ . brasū-2,2.29 .
sarvathānupapatteś ca . brasū-2,2.30 .
naikasminn asambhavāt . brasū-2,2.31 .
evaṁ cātmākārtsnyam . brasū-2,2.32 .
na ca paryāyād apy avirodho vikārādibhyaḥ . brasū-2,2.33 .
antyāvasthiteś cobhayanityatvād aviśeṣaḥ . brasū-2,2.34 .
patyur asāmañjasyāt . brasū-2,2.35 .
adhiṣṭhānānupapatteś ca . brasū-2,2.36 .
karaṇavac cen na bhogādibhyaḥ . brasū-2,2.37 .
antavattvam asarvajñatā vā . brasū-2,2.38 .
utpattyasaṁbhavāt . brasū-2,2.39 .
na ca kartuḥ karaṇam . brasū-2,2.40 .
vijñānādibhāve vā tadapratiṣedhaḥ . brasū-2,2.41 .
vipratiṣedhāc ca . brasū-2,2.42 .
na viyadaśruteḥ . brasū-2,3.1 .
asti tu . brasū-2,3.2 .
gauṇyasaṁbhavāc chabdāc ca . brasū-2,3.3 .
syāc caikasya brahmaśabdavat . brasū-2,3.4 .
pratijñāhānir avyatirekāt . brasū-2,3.5 .
śabdebhyaḥ . brasū-2,3.6 .
yāvadvikāraṁ tu vibhāgo lokavat . brasū-2,3.7 .
etena mātariśvā vyākhyātaḥ . brasū-2,3.8 .
asaṁbhavas tu sato'nupapatteḥ . brasū-2,3.9 .
tejo'tas tathā hy āha . brasū-2,3.10 .
āpaḥ . brasū-2,3.11 .
pṛthivī . brasū-2,3.12 .
adhikārarūpaśabdāntarebhyaḥ . brasū-2,3.13 .
tadabhidhyānād eva tu talliṅgāt saḥ . brasū-2,3.14 .
viparyayeṇa tu kramo'ta upapadyate ca . brasū-2,3.15 .
antarā vijñānamanasī krameṇa talliṅgād iti cen nāviśeṣāt . brasū-2,3.16 .
carācaravyapāśrayas tu syāt tadvyapadeśo bhāktas tadbhāvabhāvitvāt . brasū-2,3.17 .
nātmā śruter nityatvāc ca tābhyaḥ . brasū-2,3.18 .
jño'ta eva . brasū-2,3.19 .
utkrāntigatyāgatīnām . brasū-2,3.20 .
svātmanā cottarayoḥ . brasū-2,3.21 .
nāṇuratacchruter iti cen netarādhikārāt . brasū-2,3.22 .
svaśabdonmānābhyāṁ ca . brasū-2,3.23 .
avirodhaś candanavat . brasū-2,3.24 .
avasthitivaiśeṣyād iti cen nābhyupagamād dhṛdi hi . brasū-2,3.25 .
guṇādvā lokavat . brasū-2,3.26 .
vyatireko gandhavat tathā hi darśayati . brasū-2,3.27 .
pṛthagupadeśāt . brasū-2,3.28 .
tadguṇasāratvāt tu tadvyapadeśaḥ prājñavat . brasū-2,3.29 .
yāvadātmabhāvitvāc ca na doṣas taddarśanāt . brasū-2,3.30 .
puṁstvādivat tv asya sato'bhivyaktiyogāt . brasū-2,3.31 .
nityopalabdhyanupalabdhiprasaṅgo'nyataraniyamo vānyathā . brasū-2,3.32 .
kartā śāstrārthavattvāt . brasū-2,3.33 .
upādānād vihāropadeśāc ca . brasū-2,3.34 .
vyapadeśāc ca kriyāyāṁ na cen nirdeśaviparyayaḥ . brasū-2,3.35 .
upalabdhivadaniyamaḥ . brasū-2,3.36 .
śaktiviparyayāt . brasū-2,3.37 .
samādhyabhāvāc ca . brasū-2,3.38 .
yathā ca takṣobhayathā . brasū-2,3.39 .
parāt tu tacchruteḥ . brasū-2,3.40 .
kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ . brasū-2,3.41 .
aṁśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke . brasū-2,3.42 .
mantravarṇāt . brasū-2,3.43 .
api smaryate . brasū-2,3.44 .
prakāśādivat tu naivaṁ paraḥ . brasū-2,3.45 .
smaranti ca . brasū-2,3.46 .
anujñāparihārau dehasambandhāj jyotirādivat . brasū-2,3.47 .
asantateś cāvyatikaraḥ . brasū-2,3.48 .
ābhāsa eva ca . brasū-2,3.49 .
adṛṣṭāniyamāt . brasū-2,3.50 .
abhisandhyādiṣv api caivam . brasū-2,3.51 .
pradeśabhedād iti cen nāntarbhāvāt . brasū-2,3.52 .
tathā prāṇāḥ . brasū-2,4.1 .
gauṇyasaṁbhavāt tatprāk śruteś ca . brasū-2,4.2 .
tatpūrvakatvād vācaḥ . brasū-2,4.3 .
sapta gater viśeṣitatvāc ca . brasū-2,4.4 .
hastādayas tu sthite'to naivam . brasū-2,4.5 .
aṇavaś ca . brasū-2,4.6 .
śreṣṭhaś ca . brasū-2,4.7 .
na vāyukriye pṛthagupadeśāt . brasū-2,4.8 .
cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ . brasū-2,4.9 .
akaraṇatvāc ca na doṣas tathā hi darśayati . brasū-2,4.10 .
pañcavṛttir manovat vyapadiśyate . brasū-2,4.11 .
aṇuś ca . brasū-2,4.12 .
jyotir ādyadhiṣṭhānaṁ tu tadāmananātprāṇavatā śabdāt . brasū-2,4.13 .
tasya ca nityatvāt . brasū-2,4.14 .
ta indriyāṇi tadvyapadeśād anyatra śreṣṭhāt . brasū-2,4.15 .
bhedaśruter vailakṣaṇyāc ca . brasū-2,4.16 .
saṁjñāmūrtikḷptis tu trivṛtkurvata upadeśāt . brasū-2,4.17 .
māṁsādi bhaumaṁ yathāśabdamitarayoś ca . brasū-2,4.18 .
vaiśeṣyāt tu tadvādas tadvādaḥ . brasū-2,4.19 .
| | | width="50%"| |