Веданта-сутры (санскрит)
Материал из Шайвавики
Версия от 13:03, 24 августа 2013; Shantira Shani (обсуждение | вклад) (Новая страница: «Оригинальный текст Веданта-сутр в деванагари и IAST. == प्रथम अध्याय ( ...»)
Оригинальный текст Веданта-сутр в деванагари и IAST.
प्रथम अध्याय ( समन्वय ) // prathama adhyāya ( samanvaya )
अथातो ब्रह्मजिज्ञासा । ब्रसू-१,१.१ । जन्माद्यस्य यतः । ब्रसू-१,१.२ । शास्त्रयोनित्वात् । ब्रसू-१,१.३ । तत् तु समन्वयात् । ब्रसू-१,१.४ । ईक्षतेर् नाशब्दम् । ब्रसू-१,१.५ । गौणश् चेन् नात्मशब्दात् । ब्रसू-१,१.६ । तन्निष्ठस्य मोक्षोपदेशात् । ब्रसू-१,१.७ । हेयत्वावचनाच् च । ब्रसू-१,१.८ । प्रतिज्ञाविरोधात् । ब्रसू-१,१.९ । स्वाप्ययात् । ब्रसू-१,१.१० । गतिसामान्यात् । ब्रसू-१,१.११ । श्रुतत्वाच् च । ब्रसू-१,१.१२ । आनन्दमयोऽभ्यासात् । ब्रसू-१,१.१३ । विकारशब्दान् नेति चेन् न प्राचुर्यात् । ब्रसू-१,१.१४ । तद्धेतुव्यपदेशाच् च । ब्रसू-१,१.१५ । मान्त्रवर्णिकमेव च गीयते । ब्रसू-१,१.१६ । नेतरोऽनुपपत्तेः । ब्रसू-१,१.१७ । भेदव्यपदेशाच् च । ब्रसू-१,१.१८ । कामाच् च नानुमानापेक्षा । ब्रसू-१,१.१९ । अस्मिन्न् अस्य च तद्योगं शास्ति । ब्रसू-१,१.२० । अन्तस् तद्धर्मोपदेशात् । ब्रसू-१,१.२१ । भेदव्यपदेशाच् चान्यः । ब्रसू-१,१.२२ । आकाशस् तल्लिङ्गात् । ब्रसू-१,१.२३ । अत एव प्राणः । ब्रसू-१,१.२४ । ज्योतिश् चरणाभिधानात् । ब्रसू-१,१.२५ । छन्दोऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् । ब्रसू-१,१.२६ । भूतादिपादव्यपदेशोपपत्तेश् चैवम् । ब्रसू-१,१.२७ । उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात् । ब्रसू-१,१.२८ । प्राणस् तथानुगमात् । ब्रसू-१,१.२९ । न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन् । ब्रसू-१,१.३० । शास्त्रदृष्ट्या तूपदेशो वामदेववत् । ब्रसू-१,१.३१ । जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात् । ब्रसू-१,१.३२ । सर्वत्र प्रसिद्धोपदेशात् । ब्रसू-१,२.१ । विवक्षितगुणोपपत्तेश् च । ब्रसू-१,२.२ । अनुपपत्तेस् तु न शारीरः । ब्रसू-१,२.३ । कर्मकर्तृव्यपदेशाच् च । ब्रसू-१,२.४ । शब्दविशेषात् । ब्रसू-१,२.५ । स्मृतेश् च । ब्रसू-१,२.६ । अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च । ब्रसू-१,२.७ । संभोगप्राप्तिर् इति चेन् न वैशेष्यात् । ब्रसू-१,२.८ । अत्ता चराचरग्रहणात् । ब्रसू-१,२.९ । प्रकरणाच् च । ब्रसू-१,२.१० । गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात् । ब्रसू-१,२.११ । विशेषणाच् च । ब्रसू-१,२.१२ । अन्तर उपपत्तेः । ब्रसू-१,२.१३ । स्थानादिव्यपदेशाच् च । ब्रसू-१,२.१४ । सुखविशिष्टाभिधानाद् एव च । ब्रसू-१,२.१५ । अत एव च स ब्रह्म । ब्रसू-१,२.१६ । श्रुतोपनिषत्कगत्यभिधानाच् च । ब्रसू-१,२.१७ । अनवस्थितेर् असंभवाच् च नेतरः । ब्रसू-१,२.१८ । अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । ब्रसू-१,२.१९ । न च स्मार्तम् अतद्धर्माभिलापाच् छारीरश् च । ब्रसू-१,२.२० । उभयेऽपि हि भेदेनैनम् अधीयते । ब्रसू-१,२.२१ । अदृश्यत्वादिगुणको धर्मोक्तेः । ब्रसू-१,२.२२ । विशेषणभेदव्यपदेशाभ्यां च नेतरौ । ब्रसू-१,२.२३ । रूपोपन्यासाच् च । ब्रसू-१,२.२४ । वैश्वानरः साधारणशब्दविशेषात् । ब्रसू-१,२.२५ । स्मर्यमाणम् अनुमानं स्याद् इति । ब्रसू-१,२.२६ । शब्दादिभ्योऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते । ब्रसू-१,२.२७ । अत एव न देवता भूतं च । ब्रसू-१,२.२८ । साक्षाद् अप्य् अविरोधं जैमिनिः । ब्रसू-१,२.२९ । अभिव्यक्तेर् इत्य् आश्मरथ्यः । ब्रसू-१,२.३० । अनुस्मृतेर् बादरिः । ब्रसू-१,२.३१ । संपत्तेर् इति जैमिनिस् तथा हि दर्शयति । ब्रसू-१,२.३२ । आमनन्ति चैनम् अस्मिन् । ब्रसू-१,२.३३ । द्युभ्वाद्यायतनं स्वशब्दात् । ब्रसू-१,३.१ । मुक्तोपसृप्यव्यपदेशाच् च । ब्रसू-१,३.२ । नानुमानम् अतच्छब्दात् प्राणभृच् च । ब्रसू-१,३.३ । भेदव्यपदेशात् । ब्रसू-१,३.४ । प्रकरणात् । ब्रसू-१,३.५ । स्थित्यदनाभ्यां च । ब्रसू-१,३.६ । भूमा संप्रसादाद् अध्युपदेशात् । ब्रसू-१,३.७ । धर्मोपपत्तेश् च । ब्रसू-१,३.८ । अक्षरम् अम्बरान्तधृतेः । ब्रसू-१,३.९ । सा च प्रशासनात् । ब्रसू-१,३.१० । अन्यभावव्यावृत्तेश्च । ब्रसू-१,३.११ । ईक्षतिकर्मव्यपदेशात् सः । ब्रसू-१,३.१२ । दहर उत्तरेभ्यः । ब्रसू-१,३.१३ । गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च । ब्रसू-१,३.१४ । धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः । ब्रसू-१,३.१५ । प्रसिद्धेश् च । ब्रसू-१,३.१६ । इतरपरामर्शात् स इति चेन् नासंभवात् । ब्रसू-१,३.१७ । उत्तराच् चेद् आविर्भूतस्वरूपस् तु । ब्रसू-१,३.१८ । अन्यार्थश् च परामर्शः । ब्रसू-१,३.१९ । अल्पश्रुतेर् इति चेत् तद् उक्तम् । ब्रसू-१,३.२० । अनुकृतेस् तस्य च । ब्रसू-१,३.२१ । अपि च स्मर्यते । ब्रसू-१,३.२२ । शब्दाद् एव प्रमितः । ब्रसू-१,३.२३ । हृद्यपेक्षया तु मनुष्याधिकारत्वात् । ब्रसू-१,३.२४ । तदुपर्य् अपि बादरायणः संभवात् । ब्रसू-१,३.२५ । विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात् । ब्रसू-१,३.२६ । शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् । ब्रसू-१,३.२७ । अत एव च नित्यत्वम् । ब्रसू-१,३.२८ । समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च । ब्रसू-१,३.२९ । मध्वादिष्व् असंभवाद् अनधिकारं जैमिनिः । ब्रसू-१,३.३० । ज्योतिषि भावाच् च । ब्रसू-१,३.३१ । भावं तु बादरायणोऽस्ति हि । ब्रसू-१,३.३२ । शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि । ब्रसू-१,३.३३ । क्षत्रियत्वगतेश् च । ब्रसू-१,३.३४ । उत्तरत्र चैत्ररथेन लिङ्गात् । ब्रसू-१,३.३५ । संस्कारपरामर्शात् तदभावाभिलापाच् च । ब्रसू-१,३.३६ । तदभावनिर्धारणे च प्रवृत्तेः । ब्रसू-१,३.३७ । श्रवणाध्ययनार्थप्रतिषेधात् । ब्रसू-१,३.३८ । स्मृतेश् च । ब्रसू-१,३.३९ । कम्पनात् । ब्रसू-१,३.४० । ज्योतिर् दर्शनात् । ब्रसू-१,३.४१ । आकाशोऽर्थान्तरत्वादिव्यपदेशात् । ब्रसू-१,३.४२ । सुषुप्त्युत्क्रान्त्योर् भेदेन । ब्रसू-१,३.४३ । पत्यादिशब्देभ्यः । ब्रसू-१,३.४४ । आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च । ब्रसू-१,४.१ । सूक्ष्मं तु तदर्हत्वात् । ब्रसू-१,४.२ । तदधीनत्वाद् अर्थवत् । ब्रसू-१,४.३ । ज्ञेयत्वावचनाच् च । ब्रसू-१,४.४ । वदतीति चेन् न प्राज्ञो हि प्रकरणात् । ब्रसू-१,४.५ । त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च । ब्रसू-१,४.६ । महद्वच् च । ब्रसू-१,४.७ । चमसवदविशेषात् । ब्रसू-१,४.८ । ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके । ब्रसू-१,४.९ । कल्पनोपदेशाच् च मध्वादिवदविरोधः । ब्रसू-१,४.१० । न संख्योपसंग्रहादपि ज्ञानाभावाद् अतिरेकाच् च । ब्रसू-१,४.११ । प्राणादयो वाक्यशेषात् । ब्रसू-१,४.१२ । ज्योतिषैकेषाम् असत्यन्ने । ब्रसू-१,४.१३ । कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । ब्रसू-१,४.१४ । समाकर्षात् । ब्रसू-१,४.१५ । जगद्वाचित्वात् । ब्रसू-१,४.१६ । जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम् । ब्रसू-१,४.१७ । अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके । ब्रसू-१,४.१८ । वाक्यान्वयात् । ब्रसू-१,४.१९ । प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः । ब्रसू-१,४.२० । उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः । ब्रसू-१,४.२१ । अवस्थितेर् इति काशकृत्स्नः । ब्रसू-१,४.२२ । प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात् । ब्रसू-१,४.२३ । अभिध्योपदेशाच् च । ब्रसू-१,४.२४ । साक्षाच् चोभयाम्नानात् । ब्रसू-१,४.२५ । आत्मकृतेः । ब्रसू-१,४.२६ । परिणामात् । ब्रसू-१,४.२७ । योनिश् च हि गीयते । ब्रसू-१,४.२८ । एतेन सर्वे व्याख्याता व> |
width="50%"|athāto brahmajijñāsā | brasū-1,1.1 | janmādyasya yataḥ | brasū-1,1.2 | śāstrayonitvāt | brasū-1,1.3 | tat tu samanvayāt | brasū-1,1.4 | īkṣater nāśabdam | brasū-1,1.5 | gauṇaś cen nātmaśabdāt | brasū-1,1.6 | tanniṣṭhasya mokṣopadeśāt | brasū-1,1.7 | heyatvāvacanāc ca | brasū-1,1.8 | pratijñāvirodhāt | brasū-1,1.9 | svāpyayāt | brasū-1,1.10 | gatisāmānyāt | brasū-1,1.11 | śrutatvāc ca | brasū-1,1.12 | ānandamayo'bhyāsāt | brasū-1,1.13 | vikāraśabdān neti cen na prācuryāt | brasū-1,1.14 | taddhetuvyapadeśāc ca | brasū-1,1.15 | māntravarṇikameva ca gīyate | brasū-1,1.16 | netaro'nupapatteḥ | brasū-1,1.17 | bhedavyapadeśāc ca | brasū-1,1.18 | kāmāc ca nānumānāpekṣā | brasū-1,1.19 | asminn asya ca tadyogaṁ śāsti | brasū-1,1.20 | antas taddharmopadeśāt | brasū-1,1.21 | bhedavyapadeśāc cānyaḥ | brasū-1,1.22 | ākāśas talliṅgāt | brasū-1,1.23 | ata eva prāṇaḥ | brasū-1,1.24 | jyotiś caraṇābhidhānāt | brasū-1,1.25 | chando'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | brasū-1,1.26 | bhūtādipādavyapadeśopapatteś caivam | brasū-1,1.27 | upadeśabhedān neti cen nobhayasminn apy avirodhāt | brasū-1,1.28 | prāṇas tathānugamāt | brasū-1,1.29 | na vaktur ātmopadeśād iti ced adhyātmasaṁbandhabhūmā hy asmin | brasū-1,1.30 | śāstradṛṣṭyā tūpadeśo vāmadevavat | brasū-1,1.31 | jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt | brasū-1,1.32 | sarvatra prasiddhopadeśāt | brasū-1,2.1 | vivakṣitaguṇopapatteś ca | brasū-1,2.2 | anupapattes tu na śārīraḥ | brasū-1,2.3 | karmakartṛvyapadeśāc ca | brasū-1,2.4 | śabdaviśeṣāt | brasū-1,2.5 | smṛteś ca | brasū-1,2.6 | arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṁ vyomavac ca | brasū-1,2.7 | saṁbhogaprāptir iti cen na vaiśeṣyāt | brasū-1,2.8 | attā carācaragrahaṇāt | brasū-1,2.9 | prakaraṇāc ca | brasū-1,2.10 | guhāṁ praviṣṭāv ātmānau hi taddarśanāt | brasū-1,2.11 | viśeṣaṇāc ca | brasū-1,2.12 | antara upapatteḥ | brasū-1,2.13 | sthānādivyapadeśāc ca | brasū-1,2.14 | sukhaviśiṣṭābhidhānād eva ca | brasū-1,2.15 | ata eva ca sa brahma | brasū-1,2.16 | śrutopaniṣatkagatyabhidhānāc ca | brasū-1,2.17 | anavasthiter asaṁbhavāc ca netaraḥ | brasū-1,2.18 | antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt | brasū-1,2.19 | na ca smārtam ataddharmābhilāpāc chārīraś ca | brasū-1,2.20 | ubhaye'pi hi bhedenainam adhīyate | brasū-1,2.21 | adṛśyatvādiguṇako dharmokteḥ | brasū-1,2.22 | viśeṣaṇabhedavyapadeśābhyāṁ ca netarau | brasū-1,2.23 | rūpopanyāsāc ca | brasū-1,2.24 | vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | brasū-1,2.25 | smaryamāṇam anumānaṁ syād iti | brasū-1,2.26 | śabdādibhyo'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate | brasū-1,2.27 | ata eva na devatā bhūtaṁ ca | brasū-1,2.28 | sākṣād apy avirodhaṁ jaiminiḥ | brasū-1,2.29 | abhivyakter ity āśmarathyaḥ | brasū-1,2.30 | anusmṛter bādariḥ | brasū-1,2.31 | saṁpatter iti jaiminis tathā hi darśayati | brasū-1,2.32 | āmananti cainam asmin | brasū-1,2.33 | dyubhvādyāyatanaṁ svaśabdāt | brasū-1,3.1 | muktopasṛpyavyapadeśāc ca | brasū-1,3.2 | nānumānam atacchabdāt prāṇabhṛc ca | brasū-1,3.3 | bhedavyapadeśāt | brasū-1,3.4 | prakaraṇāt | brasū-1,3.5 | sthityadanābhyāṁ ca | brasū-1,3.6 | bhūmā saṁprasādād adhyupadeśāt | brasū-1,3.7 | dharmopapatteś ca | brasū-1,3.8 | akṣaram ambarāntadhṛteḥ | brasū-1,3.9 | sā ca praśāsanāt | brasū-1,3.10 | anyabhāvavyāvṛtteśca | brasū-1,3.11 | īkṣatikarmavyapadeśāt saḥ | brasū-1,3.12 | dahara uttarebhyaḥ | brasū-1,3.13 | gatiśabdābhyāṁ tathā hi dṛṣṭaṁ liṅgaṁ ca | brasū-1,3.14 | dhṛteś ca mahimno'syāsminn upalabdheḥ | brasū-1,3.15 | prasiddheś ca | brasū-1,3.16 | itaraparāmarśāt sa iti cen nāsaṁbhavāt | brasū-1,3.17 | uttarāc ced āvirbhūtasvarūpas tu | brasū-1,3.18 | anyārthaś ca parāmarśaḥ | brasū-1,3.19 | alpaśruter iti cet tad uktam | brasū-1,3.20 | anukṛtes tasya ca | brasū-1,3.21 | api ca smaryate | brasū-1,3.22 | śabdād eva pramitaḥ | brasū-1,3.23 | hṛdyapekṣayā tu manuṣyādhikāratvāt | brasū-1,3.24 | tadupary api bādarāyaṇaḥ saṁbhavāt | brasū-1,3.25 | virodhaḥ karmaṇīti cen nānekapratipatter darśanāt | brasū-1,3.26 | śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām | brasū-1,3.27 | ata eva ca nityatvam | brasū-1,3.28 | samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca | brasū-1,3.29 | madhvādiṣv asaṁbhavād anadhikāraṁ jaiminiḥ | brasū-1,3.30 | jyotiṣi bhāvāc ca | brasū-1,3.31 | bhāvaṁ tu bādarāyaṇo'sti hi | brasū-1,3.32 | śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi | brasū-1,3.33 | kṣatriyatvagateś ca | brasū-1,3.34 | uttaratra caitrarathena liṅgāt | brasū-1,3.35 | saṁskāraparāmarśāt tadabhāvābhilāpāc ca | brasū-1,3.36 | tadabhāvanirdhāraṇe ca pravṛtteḥ | brasū-1,3.37 | śravaṇādhyayanārthapratiṣedhāt | brasū-1,3.38 | smṛteś ca | brasū-1,3.39 | kampanāt | brasū-1,3.40 | jyotir darśanāt | brasū-1,3.41 | ākāśo'rthāntaratvādivyapadeśāt | brasū-1,3.42 | suṣuptyutkrāntyor bhedena | brasū-1,3.43 | patyādiśabdebhyaḥ | brasū-1,3.44 | ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca | brasū-1,4.1 | sūkṣmaṁ tu tadarhatvāt | brasū-1,4.2 | tadadhīnatvād arthavat | brasū-1,4.3 | jñeyatvāvacanāc ca | brasū-1,4.4 | vadatīti cen na prājño hi prakaraṇāt | brasū-1,4.5 | trayāṇām eva caivam upanyāsaḥ praśnaś ca | brasū-1,4.6 | mahadvac ca | brasū-1,4.7 | camasavadaviśeṣāt | brasū-1,4.8 | jyotirupakramā tu tathā hy adhīyata eke | brasū-1,4.9 | kalpanopadeśāc ca madhvādivadavirodhaḥ | brasū-1,4.10 | na saṁkhyopasaṁgrahādapi jñānābhāvād atirekāc ca | brasū-1,4.11 | prāṇādayo vākyaśeṣāt | brasū-1,4.12 | jyotiṣaikeṣām asatyanne | brasū-1,4.13 | kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ | brasū-1,4.14 | samākarṣāt | brasū-1,4.15 | jagadvācitvāt | brasū-1,4.16 | jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam | brasū-1,4.17 | anyārthaṁ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke | brasū-1,4.18 | vākyānvayāt | brasū-1,4.19 | pratijñāsiddher liṅgam āśmarathyaḥ | brasū-1,4.20 | utkramiṣyata evaṁ bhāvād ity auḍulomiḥ | brasū-1,4.21 | avasthiter iti kāśakṛtsnaḥ | brasū-1,4.22 | prakṛtiś ca pratijñādṛṣṭāntānuparodhāt | brasū-1,4.23 | abhidhyopadeśāc ca | brasū-1,4.24 | sākṣāc cobhayāmnānāt | brasū-1,4.25 | ātmakṛteḥ | brasū-1,4.26 | pariṇāmāt | brasū-1,4.27 | yoniś ca hi gīyate | brasū-1,4.28 | etena sarve vyākhyātā va> |