Веданта-сутры (санскрит)
Материал из Шайвавики
Версия от 13:29, 24 августа 2013; Shantira Shani (обсуждение | вклад)
Оригинальный текст Веданта-сутр в деванагари и IAST.
- Источник: ब्रह्मसूत्र
प्रथम अध्याय ( समन्वय ) // prathama adhyāya ( samanvaya )
अथातो ब्रह्मजिज्ञासा । ब्रसू-१,१.१ । जन्माद्यस्य यतः । ब्रसू-१,१.२ । शास्त्रयोनित्वात् । ब्रसू-१,१.३ । तत् तु समन्वयात् । ब्रसू-१,१.४ । ईक्षतेर् नाशब्दम् । ब्रसू-१,१.५ । गौणश् चेन् नात्मशब्दात् । ब्रसू-१,१.६ । तन्निष्ठस्य मोक्षोपदेशात् । ब्रसू-१,१.७ । हेयत्वावचनाच् च । ब्रसू-१,१.८ । प्रतिज्ञाविरोधात् । ब्रसू-१,१.९ । स्वाप्ययात् । ब्रसू-१,१.१० । गतिसामान्यात् । ब्रसू-१,१.११ । श्रुतत्वाच् च । ब्रसू-१,१.१२ । आनन्दमयोऽभ्यासात् । ब्रसू-१,१.१३ । विकारशब्दान् नेति चेन् न प्राचुर्यात् । ब्रसू-१,१.१४ । तद्धेतुव्यपदेशाच् च । ब्रसू-१,१.१५ । मान्त्रवर्णिकमेव च गीयते । ब्रसू-१,१.१६ । नेतरोऽनुपपत्तेः । ब्रसू-१,१.१७ । भेदव्यपदेशाच् च । ब्रसू-१,१.१८ । कामाच् च नानुमानापेक्षा । ब्रसू-१,१.१९ । अस्मिन्न् अस्य च तद्योगं शास्ति । ब्रसू-१,१.२० । अन्तस् तद्धर्मोपदेशात् । ब्रसू-१,१.२१ । भेदव्यपदेशाच् चान्यः । ब्रसू-१,१.२२ । आकाशस् तल्लिङ्गात् । ब्रसू-१,१.२३ । अत एव प्राणः । ब्रसू-१,१.२४ । ज्योतिश् चरणाभिधानात् । ब्रसू-१,१.२५ । छन्दोऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् । ब्रसू-१,१.२६ । भूतादिपादव्यपदेशोपपत्तेश् चैवम् । ब्रसू-१,१.२७ । उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात् । ब्रसू-१,१.२८ । प्राणस् तथानुगमात् । ब्रसू-१,१.२९ । न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन् । ब्रसू-१,१.३० । शास्त्रदृष्ट्या तूपदेशो वामदेववत् । ब्रसू-१,१.३१ । जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात् । ब्रसू-१,१.३२ । सर्वत्र प्रसिद्धोपदेशात् । ब्रसू-१,२.१ । विवक्षितगुणोपपत्तेश् च । ब्रसू-१,२.२ । अनुपपत्तेस् तु न शारीरः । ब्रसू-१,२.३ । कर्मकर्तृव्यपदेशाच् च । ब्रसू-१,२.४ । शब्दविशेषात् । ब्रसू-१,२.५ । स्मृतेश् च । ब्रसू-१,२.६ । अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च । ब्रसू-१,२.७ । संभोगप्राप्तिर् इति चेन् न वैशेष्यात् । ब्रसू-१,२.८ । अत्ता चराचरग्रहणात् । ब्रसू-१,२.९ । प्रकरणाच् च । ब्रसू-१,२.१० । गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात् । ब्रसू-१,२.११ । विशेषणाच् च । ब्रसू-१,२.१२ । अन्तर उपपत्तेः । ब्रसू-१,२.१३ । स्थानादिव्यपदेशाच् च । ब्रसू-१,२.१४ । सुखविशिष्टाभिधानाद् एव च । ब्रसू-१,२.१५ । अत एव च स ब्रह्म । ब्रसू-१,२.१६ । श्रुतोपनिषत्कगत्यभिधानाच् च । ब्रसू-१,२.१७ । अनवस्थितेर् असंभवाच् च नेतरः । ब्रसू-१,२.१८ । अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । ब्रसू-१,२.१९ । न च स्मार्तम् अतद्धर्माभिलापाच् छारीरश् च । ब्रसू-१,२.२० । उभयेऽपि हि भेदेनैनम् अधीयते । ब्रसू-१,२.२१ । अदृश्यत्वादिगुणको धर्मोक्तेः । ब्रसू-१,२.२२ । विशेषणभेदव्यपदेशाभ्यां च नेतरौ । ब्रसू-१,२.२३ । रूपोपन्यासाच् च । ब्रसू-१,२.२४ । वैश्वानरः साधारणशब्दविशेषात् । ब्रसू-१,२.२५ । स्मर्यमाणम् अनुमानं स्याद् इति । ब्रसू-१,२.२६ । शब्दादिभ्योऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते । ब्रसू-१,२.२७ । अत एव न देवता भूतं च । ब्रसू-१,२.२८ । साक्षाद् अप्य् अविरोधं जैमिनिः । ब्रसू-१,२.२९ । अभिव्यक्तेर् इत्य् आश्मरथ्यः । ब्रसू-१,२.३० । अनुस्मृतेर् बादरिः । ब्रसू-१,२.३१ । संपत्तेर् इति जैमिनिस् तथा हि दर्शयति । ब्रसू-१,२.३२ । आमनन्ति चैनम् अस्मिन् । ब्रसू-१,२.३३ । द्युभ्वाद्यायतनं स्वशब्दात् । ब्रसू-१,३.१ । मुक्तोपसृप्यव्यपदेशाच् च । ब्रसू-१,३.२ । नानुमानम् अतच्छब्दात् प्राणभृच् च । ब्रसू-१,३.३ । भेदव्यपदेशात् । ब्रसू-१,३.४ । प्रकरणात् । ब्रसू-१,३.५ । स्थित्यदनाभ्यां च । ब्रसू-१,३.६ । भूमा संप्रसादाद् अध्युपदेशात् । ब्रसू-१,३.७ । धर्मोपपत्तेश् च । ब्रसू-१,३.८ । अक्षरम् अम्बरान्तधृतेः । ब्रसू-१,३.९ । सा च प्रशासनात् । ब्रसू-१,३.१० । अन्यभावव्यावृत्तेश्च । ब्रसू-१,३.११ । ईक्षतिकर्मव्यपदेशात् सः । ब्रसू-१,३.१२ । दहर उत्तरेभ्यः । ब्रसू-१,३.१३ । गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च । ब्रसू-१,३.१४ । धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः । ब्रसू-१,३.१५ । प्रसिद्धेश् च । ब्रसू-१,३.१६ । इतरपरामर्शात् स इति चेन् नासंभवात् । ब्रसू-१,३.१७ । उत्तराच् चेद् आविर्भूतस्वरूपस् तु । ब्रसू-१,३.१८ । अन्यार्थश् च परामर्शः । ब्रसू-१,३.१९ । अल्पश्रुतेर् इति चेत् तद् उक्तम् । ब्रसू-१,३.२० । अनुकृतेस् तस्य च । ब्रसू-१,३.२१ । अपि च स्मर्यते । ब्रसू-१,३.२२ । शब्दाद् एव प्रमितः । ब्रसू-१,३.२३ । हृद्यपेक्षया तु मनुष्याधिकारत्वात् । ब्रसू-१,३.२४ । तदुपर्य् अपि बादरायणः संभवात् । ब्रसू-१,३.२५ । विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात् । ब्रसू-१,३.२६ । शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् । ब्रसू-१,३.२७ । अत एव च नित्यत्वम् । ब्रसू-१,३.२८ । समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च । ब्रसू-१,३.२९ । मध्वादिष्व् असंभवाद् अनधिकारं जैमिनिः । ब्रसू-१,३.३० । ज्योतिषि भावाच् च । ब्रसू-१,३.३१ । भावं तु बादरायणोऽस्ति हि । ब्रसू-१,३.३२ । शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि । ब्रसू-१,३.३३ । क्षत्रियत्वगतेश् च । ब्रसू-१,३.३४ । उत्तरत्र चैत्ररथेन लिङ्गात् । ब्रसू-१,३.३५ । संस्कारपरामर्शात् तदभावाभिलापाच् च । ब्रसू-१,३.३६ । तदभावनिर्धारणे च प्रवृत्तेः । ब्रसू-१,३.३७ । श्रवणाध्ययनार्थप्रतिषेधात् । ब्रसू-१,३.३८ । स्मृतेश् च । ब्रसू-१,३.३९ । कम्पनात् । ब्रसू-१,३.४० । ज्योतिर् दर्शनात् । ब्रसू-१,३.४१ । आकाशोऽर्थान्तरत्वादिव्यपदेशात् । ब्रसू-१,३.४२ । सुषुप्त्युत्क्रान्त्योर् भेदेन । ब्रसू-१,३.४३ । पत्यादिशब्देभ्यः । ब्रसू-१,३.४४ । आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च । ब्रसू-१,४.१ । सूक्ष्मं तु तदर्हत्वात् । ब्रसू-१,४.२ । तदधीनत्वाद् अर्थवत् । ब्रसू-१,४.३ । ज्ञेयत्वावचनाच् च । ब्रसू-१,४.४ । वदतीति चेन् न प्राज्ञो हि प्रकरणात् । ब्रसू-१,४.५ । त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च । ब्रसू-१,४.६ । महद्वच् च । ब्रसू-१,४.७ । चमसवदविशेषात् । ब्रसू-१,४.८ । ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके । ब्रसू-१,४.९ । कल्पनोपदेशाच् च मध्वादिवदविरोधः । ब्रसू-१,४.१० । न संख्योपसंग्रहादपि ज्ञानाभावाद् अतिरेकाच् च । ब्रसू-१,४.११ । प्राणादयो वाक्यशेषात् । ब्रसू-१,४.१२ । ज्योतिषैकेषाम् असत्यन्ने । ब्रसू-१,४.१३ । कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । ब्रसू-१,४.१४ । समाकर्षात् । ब्रसू-१,४.१५ । जगद्वाचित्वात् । ब्रसू-१,४.१६ । जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम् । ब्रसू-१,४.१७ । अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके । ब्रसू-१,४.१८ । वाक्यान्वयात् । ब्रसू-१,४.१९ । प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः । ब्रसू-१,४.२० । उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः । ब्रसू-१,४.२१ । अवस्थितेर् इति काशकृत्स्नः । ब्रसू-१,४.२२ । प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात् । ब्रसू-१,४.२३ । अभिध्योपदेशाच् च । ब्रसू-१,४.२४ । साक्षाच् चोभयाम्नानात् । ब्रसू-१,४.२५ । आत्मकृतेः । ब्रसू-१,४.२६ । परिणामात् । ब्रसू-१,४.२७ । योनिश् च हि गीयते । ब्रसू-१,४.२८ । एतेन सर्वे व्याख्याता व> |
athāto brahmajijñāsā . brasū-1,1.1 . janmādyasya yataḥ . brasū-1,1.2 . śāstrayonitvāt . brasū-1,1.3 . tat tu samanvayāt . brasū-1,1.4 . īkṣater nāśabdam . brasū-1,1.5 . gauṇaś cen nātmaśabdāt . brasū-1,1.6 . tanniṣṭhasya mokṣopadeśāt . brasū-1,1.7 . heyatvāvacanāc ca . brasū-1,1.8 . pratijñāvirodhāt . brasū-1,1.9 . svāpyayāt . brasū-1,1.10 . gatisāmānyāt . brasū-1,1.11 . śrutatvāc ca . brasū-1,1.12 . ānandamayo'bhyāsāt . brasū-1,1.13 . vikāraśabdān neti cen na prācuryāt . brasū-1,1.14 . taddhetuvyapadeśāc ca . brasū-1,1.15 . māntravarṇikameva ca gīyate . brasū-1,1.16 . netaro'nupapatteḥ . brasū-1,1.17 . bhedavyapadeśāc ca . brasū-1,1.18 . kāmāc ca nānumānāpekṣā . brasū-1,1.19 . asminn asya ca tadyogaṁ śāsti . brasū-1,1.20 . antas taddharmopadeśāt . brasū-1,1.21 . bhedavyapadeśāc cānyaḥ . brasū-1,1.22 . ākāśas talliṅgāt . brasū-1,1.23 . ata eva prāṇaḥ . brasū-1,1.24 . jyotiś caraṇābhidhānāt . brasū-1,1.25 . chando'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam . brasū-1,1.26 . bhūtādipādavyapadeśopapatteś caivam . brasū-1,1.27 . upadeśabhedān neti cen nobhayasminn apy avirodhāt . brasū-1,1.28 . prāṇas tathānugamāt . brasū-1,1.29 . na vaktur ātmopadeśād iti ced adhyātmasaṁbandhabhūmā hy asmin . brasū-1,1.30 . śāstradṛṣṭyā tūpadeśo vāmadevavat . brasū-1,1.31 . jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt . brasū-1,1.32 . sarvatra prasiddhopadeśāt . brasū-1,2.1 . vivakṣitaguṇopapatteś ca . brasū-1,2.2 . anupapattes tu na śārīraḥ . brasū-1,2.3 . karmakartṛvyapadeśāc ca . brasū-1,2.4 . śabdaviśeṣāt . brasū-1,2.5 . smṛteś ca . brasū-1,2.6 . arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṁ vyomavac ca . brasū-1,2.7 . saṁbhogaprāptir iti cen na vaiśeṣyāt . brasū-1,2.8 . attā carācaragrahaṇāt . brasū-1,2.9 . prakaraṇāc ca . brasū-1,2.10 . guhāṁ praviṣṭāv ātmānau hi taddarśanāt . brasū-1,2.11 . viśeṣaṇāc ca . brasū-1,2.12 . antara upapatteḥ . brasū-1,2.13 . sthānādivyapadeśāc ca . brasū-1,2.14 . sukhaviśiṣṭābhidhānād eva ca . brasū-1,2.15 . ata eva ca sa brahma . brasū-1,2.16 . śrutopaniṣatkagatyabhidhānāc ca . brasū-1,2.17 . anavasthiter asaṁbhavāc ca netaraḥ . brasū-1,2.18 . antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt . brasū-1,2.19 . na ca smārtam ataddharmābhilāpāc chārīraś ca . brasū-1,2.20 . ubhaye'pi hi bhedenainam adhīyate . brasū-1,2.21 . adṛśyatvādiguṇako dharmokteḥ . brasū-1,2.22 . viśeṣaṇabhedavyapadeśābhyāṁ ca netarau . brasū-1,2.23 . rūpopanyāsāc ca . brasū-1,2.24 . vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt . brasū-1,2.25 . smaryamāṇam anumānaṁ syād iti . brasū-1,2.26 . śabdādibhyo'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate . brasū-1,2.27 . ata eva na devatā bhūtaṁ ca . brasū-1,2.28 . sākṣād apy avirodhaṁ jaiminiḥ . brasū-1,2.29 . abhivyakter ity āśmarathyaḥ . brasū-1,2.30 . anusmṛter bādariḥ . brasū-1,2.31 . saṁpatter iti jaiminis tathā hi darśayati . brasū-1,2.32 . āmananti cainam asmin . brasū-1,2.33 . dyubhvādyāyatanaṁ svaśabdāt . brasū-1,3.1 . muktopasṛpyavyapadeśāc ca . brasū-1,3.2 . nānumānam atacchabdāt prāṇabhṛc ca . brasū-1,3.3 . bhedavyapadeśāt . brasū-1,3.4 . prakaraṇāt . brasū-1,3.5 . sthityadanābhyāṁ ca . brasū-1,3.6 . bhūmā saṁprasādād adhyupadeśāt . brasū-1,3.7 . dharmopapatteś ca . brasū-1,3.8 . akṣaram ambarāntadhṛteḥ . brasū-1,3.9 . sā ca praśāsanāt . brasū-1,3.10 . anyabhāvavyāvṛtteśca . brasū-1,3.11 . īkṣatikarmavyapadeśāt saḥ . brasū-1,3.12 . dahara uttarebhyaḥ . brasū-1,3.13 . gatiśabdābhyāṁ tathā hi dṛṣṭaṁ liṅgaṁ ca . brasū-1,3.14 . dhṛteś ca mahimno'syāsminn upalabdheḥ . brasū-1,3.15 . prasiddheś ca . brasū-1,3.16 . itaraparāmarśāt sa iti cen nāsaṁbhavāt . brasū-1,3.17 . uttarāc ced āvirbhūtasvarūpas tu . brasū-1,3.18 . anyārthaś ca parāmarśaḥ . brasū-1,3.19 . alpaśruter iti cet tad uktam . brasū-1,3.20 . anukṛtes tasya ca . brasū-1,3.21 . api ca smaryate . brasū-1,3.22 . śabdād eva pramitaḥ . brasū-1,3.23 . hṛdyapekṣayā tu manuṣyādhikāratvāt . brasū-1,3.24 . tadupary api bādarāyaṇaḥ saṁbhavāt . brasū-1,3.25 . virodhaḥ karmaṇīti cen nānekapratipatter darśanāt . brasū-1,3.26 . śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām . brasū-1,3.27 . ata eva ca nityatvam . brasū-1,3.28 . samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca . brasū-1,3.29 . madhvādiṣv asaṁbhavād anadhikāraṁ jaiminiḥ . brasū-1,3.30 . jyotiṣi bhāvāc ca . brasū-1,3.31 . bhāvaṁ tu bādarāyaṇo'sti hi . brasū-1,3.32 . śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi . brasū-1,3.33 . kṣatriyatvagateś ca . brasū-1,3.34 . uttaratra caitrarathena liṅgāt . brasū-1,3.35 . saṁskāraparāmarśāt tadabhāvābhilāpāc ca . brasū-1,3.36 . tadabhāvanirdhāraṇe ca pravṛtteḥ . brasū-1,3.37 . śravaṇādhyayanārthapratiṣedhāt . brasū-1,3.38 . smṛteś ca . brasū-1,3.39 . kampanāt . brasū-1,3.40 . jyotir darśanāt . brasū-1,3.41 . ākāśo'rthāntaratvādivyapadeśāt . brasū-1,3.42 . suṣuptyutkrāntyor bhedena . brasū-1,3.43 . patyādiśabdebhyaḥ . brasū-1,3.44 . ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca . brasū-1,4.1 . sūkṣmaṁ tu tadarhatvāt . brasū-1,4.2 . tadadhīnatvād arthavat . brasū-1,4.3 . jñeyatvāvacanāc ca . brasū-1,4.4 . vadatīti cen na prājño hi prakaraṇāt . brasū-1,4.5 . trayāṇām eva caivam upanyāsaḥ praśnaś ca . brasū-1,4.6 . mahadvac ca . brasū-1,4.7 . camasavadaviśeṣāt . brasū-1,4.8 . jyotirupakramā tu tathā hy adhīyata eke . brasū-1,4.9 . kalpanopadeśāc ca madhvādivadavirodhaḥ . brasū-1,4.10 . na saṁkhyopasaṁgrahādapi jñānābhāvād atirekāc ca . brasū-1,4.11 . prāṇādayo vākyaśeṣāt . brasū-1,4.12 . jyotiṣaikeṣām asatyanne . brasū-1,4.13 . kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ . brasū-1,4.14 . samākarṣāt . brasū-1,4.15 . jagadvācitvāt . brasū-1,4.16 . jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam . brasū-1,4.17 . anyārthaṁ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke . brasū-1,4.18 . vākyānvayāt . brasū-1,4.19 . pratijñāsiddher liṅgam āśmarathyaḥ . brasū-1,4.20 . utkramiṣyata evaṁ bhāvād ity auḍulomiḥ . brasū-1,4.21 . avasthiter iti kāśakṛtsnaḥ . brasū-1,4.22 . prakṛtiś ca pratijñādṛṣṭāntānuparodhāt . brasū-1,4.23 . abhidhyopadeśāc ca . brasū-1,4.24 . sākṣāc cobhayāmnānāt . brasū-1,4.25 . ātmakṛteḥ . brasū-1,4.26 . pariṇāmāt . brasū-1,4.27 . yoniś ca hi gīyate . brasū-1,4.28 . etena sarve vyākhyātā va> |
द्वितीय अध्याय ( अविरोध ) // dvitīya adhyāya ( avirodha )
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात् । ब्रसू-२,१.१ । इतरेषां चानुपलब्धेः । ब्रसू-२,१.२ । एतेन योगः प्रत्युक्तः । ब्रसू-२,१.३ । न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् । ब्रसू-२,१.४ । अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम् । ब्रसू-२,१.५ । दृश्यते तु । ब्रसू-२,१.६ । असद् इति चेन् न प्रतिषेधमात्रत्वात् । ब्रसू-२,१.७ । अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम् । ब्रसू-२,१.८ । न तु दृष्टान्तभावात् । ब्रसू-२,१.९ । स्वपक्षदोषाच् च । ब्रसू-२,१.१० । तर्काप्रतिष्ठानाद् अपि । ब्रसू-२,१.११ । अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः । ब्रसू-२,१.१२ । एतेन शिष्टापरिग्रहा अपि व्याख्याताः । ब्रसू-२,१.१३ । भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत् । ब्रसू-२,१.१४ । तदनन्यत्वम् आरम्भणशब्दादिभ्यः । ब्रसू-२,१.१५ । भावे चोपलब्धेः । ब्रसू-२,१.१६ । सत्वाच् चापरस्य । ब्रसू-२,१.१७ । असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच् च । ब्रसू-२,१.१८ । पटवच् च । ब्रसू-२,१.१९ । यथा च प्राणादिः । ब्रसू-२,१.२० । इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः । ब्रसू-२,१.२१ । अधिकं तु भेदनिर्देशात् । ब्रसू-२,१.२२ । अश्मादिवच् च तदनुपपत्तिः । ब्रसू-२,१.२३ । उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि । ब्रसू-२,१.२४ । देवादिवद् अपि लोके । ब्रसू-२,१.२५ । कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा । ब्रसू-२,१.२६ । श्रुतेस् तु शब्दमूलत्वात् । ब्रसू-२,१.२७ । आत्मनि चैवं विचित्राश् च हि । ब्रसू-२,१.२८ । स्वपक्षदोषाच् च । ब्रसू-२,१.२९ । सर्वोपेता च तद्दर्शनात् । ब्रसू-२,१.३० । विकरणत्वान् नेति चेत् तद् उक्तम् । ब्रसू-२,१.३१ । न प्रयोजनवत्त्वात् । ब्रसू-२,१.३२ । लोकवत् तु लीलाकैवल्यम् । ब्रसू-२,१.३३ । वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति । ब्रसू-२,१.३४ । न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च । ब्रसू-२,१.३५ । सर्वधर्मोपपत्तेश् च । ब्रसू-२,१.३६ । रचनानुपपत्तेश् च नानुमानं प्रवृत्तेश् च । ब्रसू-२,२.१ । पयोऽम्बुवच् चेत् तत्रापि । ब्रसू-२,२.२ । व्यतिरेकानवस्थितेश् चानपेक्षत्वात् । ब्रसू-२,२.३ । अन्यत्राभावाच् च न तृणादिवत् । ब्रसू-२,२.४ । पुरुषाश्मवद् इति चेत् तथापि । ब्रसू-२,२.५ । अङ्गित्वानुपपत्तेश् च । ब्रसू-२,२.६ । अन्यथानुमितौ च ज्ञशक्तिवियोगात् । ब्रसू-२,२.७ । अभ्युपगमेऽप्य् अर्थाभावात् । ब्रसू-२,२.८ । विप्रतिषेधाच् चासमञ्जसम् । ब्रसू-२,२.९ । महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम् । ब्रसू-२,२.१० । उभयथापि न कर्मातस्तदभावः । ब्रसू-२,२.११ । समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः । ब्रसू-२,२.१२ । नित्यम् एव च भावात् । ब्रसू-२,२.१३ । रूपादिमत्त्वाच् च विपर्ययो दर्शनात् । ब्रसू-२,२.१४ । उभयथा च दोषात् । ब्रसू-२,२.१५ । अपरिग्रहाच् चात्यन्तम् अनपेक्षा । ब्रसू-२,२.१६ । समुदाय उभयहेतुकेऽपि तदप्राप्तिः । ब्रसू-२,२.१७ । इतरेतरप्रत्ययत्वाद् उपपन्नम् इति चेन् न सङ्घातभावानिमित्तत्वात् । ब्रसू-२,२.१८ । उत्तरोत्पादे च पूर्वनिरोधात् । ब्रसू-२,२.१९ । असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा । ब्रसू-२,२.२० । प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात् । ब्रसू-२,२.२१ । उभयथा च दोषात् । ब्रसू-२,२.२२ । आकाशे चाविशेषात् । ब्रसू-२,२.२३ । अनुस्मृतेश् च । ब्रसू-२,२.२४ । नासतोऽदृष्टत्वात् । ब्रसू-२,२.२५ । उदासीनानाम् अपि चैवं सिद्धिः । ब्रसू-२,२.२६ । नाभाव उपलब्धेः । ब्रसू-२,२.२७ । वैधर्म्याच् च न स्वप्नादिवत् । ब्रसू-२,२.२८ । न भावोऽनुपलब्धेः । ब्रसू-२,२.२९ । सर्वथानुपपत्तेश् च । ब्रसू-२,२.३० । नैकस्मिन्न् असम्भवात् । ब्रसू-२,२.३१ । एवं चात्माकार्त्स्न्यम् । ब्रसू-२,२.३२ । न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः । ब्रसू-२,२.३३ । अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः । ब्रसू-२,२.३४ । पत्युर् असामञ्जस्यात् । ब्रसू-२,२.३५ । अधिष्ठानानुपपत्तेश् च । ब्रसू-२,२.३६ । करणवच् चेन् न भोगादिभ्यः । ब्रसू-२,२.३७ । अन्तवत्त्वम् असर्वज्ञता वा । ब्रसू-२,२.३८ । उत्पत्त्यसंभवात् । ब्रसू-२,२.३९ । न च कर्तुः करणम् । ब्रसू-२,२.४० । विज्ञानादिभावे वा तदप्रतिषेधः । ब्रसू-२,२.४१ । विप्रतिषेधाच् च । ब्रसू-२,२.४२ । न वियदश्रुतेः । ब्रसू-२,३.१ । अस्ति तु । ब्रसू-२,३.२ । गौण्यसंभवाच् छब्दाच् च । ब्रसू-२,३.३ । स्याच् चैकस्य ब्रह्मशब्दवत् । ब्रसू-२,३.४ । प्रतिज्ञाहानिर् अव्यतिरेकात् । ब्रसू-२,३.५ । शब्देभ्यः । ब्रसू-२,३.६ । यावद्विकारं तु विभागो लोकवत् । ब्रसू-२,३.७ । एतेन मातरिश्वा व्याख्यातः । ब्रसू-२,३.८ । असंभवस् तु सतोऽनुपपत्तेः । ब्रसू-२,३.९ । तेजोऽतस् तथा ह्य् आह । ब्रसू-२,३.१० । आपः । ब्रसू-२,३.११ । पृथिवी । ब्रसू-२,३.१२ । अधिकाररूपशब्दान्तरेभ्यः । ब्रसू-२,३.१३ । तदभिध्यानाद् एव तु तल्लिङ्गात् सः । ब्रसू-२,३.१४ । विपर्ययेण तु क्रमोऽत उपपद्यते च । ब्रसू-२,३.१५ । अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात् । ब्रसू-२,३.१६ । चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात् । ब्रसू-२,३.१७ । नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः । ब्रसू-२,३.१८ । ज्ञोऽत एव । ब्रसू-२,३.१९ । उत्क्रान्तिगत्यागतीनाम् । ब्रसू-२,३.२० । स्वात्मना चोत्तरयोः । ब्रसू-२,३.२१ । नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात् । ब्रसू-२,३.२२ । स्वशब्दोन्मानाभ्यां च । ब्रसू-२,३.२३ । अविरोधश् चन्दनवत् । ब्रसू-२,३.२४ । अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि । ब्रसू-२,३.२५ । गुणाद्वा लोकवत् । ब्रसू-२,३.२६ । व्यतिरेको गन्धवत् तथा हि दर्शयति । ब्रसू-२,३.२७ । पृथगुपदेशात् । ब्रसू-२,३.२८ । तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् । ब्रसू-२,३.२९ । यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात् । ब्रसू-२,३.३० । पुंस्त्वादिवत् त्व् अस्य सतोऽभिव्यक्तियोगात् । ब्रसू-२,३.३१ । नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा । ब्रसू-२,३.३२ । कर्ता शास्त्रार्थवत्त्वात् । ब्रसू-२,३.३३ । उपादानाद् विहारोपदेशाच् च । ब्रसू-२,३.३४ । व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः । ब्रसू-२,३.३५ । उपलब्धिवदनियमः । ब्रसू-२,३.३६ । शक्तिविपर्ययात् । ब्रसू-२,३.३७ । समाध्यभावाच् च । ब्रसू-२,३.३८ । यथा च तक्षोभयथा । ब्रसू-२,३.३९ । परात् तु तच्छ्रुतेः । ब्रसू-२,३.४० । कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । ब्रसू-२,३.४१ । अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके । ब्रसू-२,३.४२ । मन्त्रवर्णात् । ब्रसू-२,३.४३ । अपि स्मर्यते । ब्रसू-२,३.४४ । प्रकाशादिवत् तु नैवं परः । ब्रसू-२,३.४५ । स्मरन्ति च । ब्रसू-२,३.४६ । अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत् । ब्रसू-२,३.४७ । असन्ततेश् चाव्यतिकरः । ब्रसू-२,३.४८ । आभास एव च । ब्रसू-२,३.४९ । अदृष्टानियमात् । ब्रसू-२,३.५० । अभिसन्ध्यादिष्व् अपि चैवम् । ब्रसू-२,३.५१ । प्रदेशभेदाद् इति चेन् नान्तर्भावात् । ब्रसू-२,३.५२ । तथा प्राणाः । ब्रसू-२,४.१ । गौण्यसंभवात् तत्प्राक् श्रुतेश् च । ब्रसू-२,४.२ । तत्पूर्वकत्वाद् वाचः । ब्रसू-२,४.३ । सप्त गतेर् विशेषितत्वाच् च । ब्रसू-२,४.४ । हस्तादयस् तु स्थितेऽतो नैवम् । ब्रसू-२,४.५ । अणवश् च । ब्रसू-२,४.६ । श्रेष्ठश् च । ब्रसू-२,४.७ । न वायुक्रिये पृथगुपदेशात् । ब्रसू-२,४.८ । चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः । ब्रसू-२,४.९ । अकरणत्वाच् च न दोषस् तथा हि दर्शयति । ब्रसू-२,४.१० । पञ्चवृत्तिर् मनोवत् व्यपदिश्यते । ब्रसू-२,४.११ । अणुश् च । ब्रसू-२,४.१२ । ज्योतिर् आद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् । ब्रसू-२,४.१३ । तस्य च नित्यत्वात् । ब्रसू-२,४.१४ । त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात् । ब्रसू-२,४.१५ । भेदश्रुतेर् वैलक्षण्याच् च । ब्रसू-२,४.१६ । संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात् । ब्रसू-२,४.१७ । मांसादि भौमं यथाशब्दमितरयोश् च । ब्रसू-२,४.१८ । वैशेष्यात् तु तद्वादस् तद्वादः । ब्रसू-२,४.१९ । |
lokavat tu līlākaivalyam . brasū-2,1.33 . vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati . brasū-2,1.34 . na karmāvibhāgād iti cen nānāditvād upapadyate cāpy upalabhyate ca . brasū-2,1.35 . sarvadharmopapatteś ca . brasū-2,1.36 . racanānupapatteś ca nānumānaṁ pravṛtteś ca . brasū-2,2.1 . payo'mbuvac cet tatrāpi . brasū-2,2.2 . vyatirekānavasthiteś cānapekṣatvāt . brasū-2,2.3 . anyatrābhāvāc ca na tṛṇādivat . brasū-2,2.4 . puruṣāśmavad iti cet tathāpi . brasū-2,2.5 . aṅgitvānupapatteś ca . brasū-2,2.6 . anyathānumitau ca jñaśaktiviyogāt . brasū-2,2.7 . abhyupagame'py arthābhāvāt . brasū-2,2.8 . vipratiṣedhāc cāsamañjasam . brasū-2,2.9 . mahaddīrghavad vā hrasvaparimaṇḍalābhyām . brasū-2,2.10 . ubhayathāpi na karmātastadabhāvaḥ . brasū-2,2.11 . samavāyābhyupagamāc ca sāmyād anavasthiteḥ . brasū-2,2.12 . nityam eva ca bhāvāt . brasū-2,2.13 . rūpādimattvāc ca viparyayo darśanāt . brasū-2,2.14 . ubhayathā ca doṣāt . brasū-2,2.15 . aparigrahāc cātyantam anapekṣā . brasū-2,2.16 . samudāya ubhayahetuke'pi tadaprāptiḥ . brasū-2,2.17 . itaretarapratyayatvād upapannam iti cen na saṅghātabhāvānimittatvāt . brasū-2,2.18 . uttarotpāde ca pūrvanirodhāt . brasū-2,2.19 . asati pratijñoparodho yaugapadyamanyathā . brasū-2,2.20 . pratisaṁkhyāpratisaṁkhyānirodhāprāptir avicchedāt . brasū-2,2.21 . ubhayathā ca doṣāt . brasū-2,2.22 . ākāśe cāviśeṣāt . brasū-2,2.23 . anusmṛteś ca . brasū-2,2.24 . nāsato'dṛṣṭatvāt . brasū-2,2.25 . udāsīnānām api caivaṁ siddhiḥ . brasū-2,2.26 . nābhāva upalabdheḥ . brasū-2,2.27 . vaidharmyāc ca na svapnādivat . brasū-2,2.28 . na bhāvo'nupalabdheḥ . brasū-2,2.29 . sarvathānupapatteś ca . brasū-2,2.30 . naikasminn asambhavāt . brasū-2,2.31 . evaṁ cātmākārtsnyam . brasū-2,2.32 . na ca paryāyād apy avirodho vikārādibhyaḥ . brasū-2,2.33 . antyāvasthiteś cobhayanityatvād aviśeṣaḥ . brasū-2,2.34 . patyur asāmañjasyāt . brasū-2,2.35 . adhiṣṭhānānupapatteś ca . brasū-2,2.36 . karaṇavac cen na bhogādibhyaḥ . brasū-2,2.37 . antavattvam asarvajñatā vā . brasū-2,2.38 . utpattyasaṁbhavāt . brasū-2,2.39 . na ca kartuḥ karaṇam . brasū-2,2.40 . vijñānādibhāve vā tadapratiṣedhaḥ . brasū-2,2.41 . vipratiṣedhāc ca . brasū-2,2.42 . na viyadaśruteḥ . brasū-2,3.1 . asti tu . brasū-2,3.2 . gauṇyasaṁbhavāc chabdāc ca . brasū-2,3.3 . syāc caikasya brahmaśabdavat . brasū-2,3.4 . pratijñāhānir avyatirekāt . brasū-2,3.5 . śabdebhyaḥ . brasū-2,3.6 . yāvadvikāraṁ tu vibhāgo lokavat . brasū-2,3.7 . etena mātariśvā vyākhyātaḥ . brasū-2,3.8 . asaṁbhavas tu sato'nupapatteḥ . brasū-2,3.9 . tejo'tas tathā hy āha . brasū-2,3.10 . āpaḥ . brasū-2,3.11 . pṛthivī . brasū-2,3.12 . adhikārarūpaśabdāntarebhyaḥ . brasū-2,3.13 . tadabhidhyānād eva tu talliṅgāt saḥ . brasū-2,3.14 . viparyayeṇa tu kramo'ta upapadyate ca . brasū-2,3.15 . antarā vijñānamanasī krameṇa talliṅgād iti cen nāviśeṣāt . brasū-2,3.16 . carācaravyapāśrayas tu syāt tadvyapadeśo bhāktas tadbhāvabhāvitvāt . brasū-2,3.17 . nātmā śruter nityatvāc ca tābhyaḥ . brasū-2,3.18 . jño'ta eva . brasū-2,3.19 . utkrāntigatyāgatīnām . brasū-2,3.20 . svātmanā cottarayoḥ . brasū-2,3.21 . nāṇuratacchruter iti cen netarādhikārāt . brasū-2,3.22 . svaśabdonmānābhyāṁ ca . brasū-2,3.23 . avirodhaś candanavat . brasū-2,3.24 . avasthitivaiśeṣyād iti cen nābhyupagamād dhṛdi hi . brasū-2,3.25 . guṇādvā lokavat . brasū-2,3.26 . vyatireko gandhavat tathā hi darśayati . brasū-2,3.27 . pṛthagupadeśāt . brasū-2,3.28 . tadguṇasāratvāt tu tadvyapadeśaḥ prājñavat . brasū-2,3.29 . yāvadātmabhāvitvāc ca na doṣas taddarśanāt . brasū-2,3.30 . puṁstvādivat tv asya sato'bhivyaktiyogāt . brasū-2,3.31 . nityopalabdhyanupalabdhiprasaṅgo'nyataraniyamo vānyathā . brasū-2,3.32 . kartā śāstrārthavattvāt . brasū-2,3.33 . upādānād vihāropadeśāc ca . brasū-2,3.34 . vyapadeśāc ca kriyāyāṁ na cen nirdeśaviparyayaḥ . brasū-2,3.35 . upalabdhivadaniyamaḥ . brasū-2,3.36 . śaktiviparyayāt . brasū-2,3.37 . samādhyabhāvāc ca . brasū-2,3.38 . yathā ca takṣobhayathā . brasū-2,3.39 . parāt tu tacchruteḥ . brasū-2,3.40 . kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ . brasū-2,3.41 . aṁśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke . brasū-2,3.42 . mantravarṇāt . brasū-2,3.43 . api smaryate . brasū-2,3.44 . prakāśādivat tu naivaṁ paraḥ . brasū-2,3.45 . smaranti ca . brasū-2,3.46 . anujñāparihārau dehasambandhāj jyotirādivat . brasū-2,3.47 . asantateś cāvyatikaraḥ . brasū-2,3.48 . ābhāsa eva ca . brasū-2,3.49 . adṛṣṭāniyamāt . brasū-2,3.50 . abhisandhyādiṣv api caivam . brasū-2,3.51 . pradeśabhedād iti cen nāntarbhāvāt . brasū-2,3.52 . tathā prāṇāḥ . brasū-2,4.1 . gauṇyasaṁbhavāt tatprāk śruteś ca . brasū-2,4.2 . tatpūrvakatvād vācaḥ . brasū-2,4.3 . sapta gater viśeṣitatvāc ca . brasū-2,4.4 . hastādayas tu sthite'to naivam . brasū-2,4.5 . aṇavaś ca . brasū-2,4.6 . śreṣṭhaś ca . brasū-2,4.7 . na vāyukriye pṛthagupadeśāt . brasū-2,4.8 . cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ . brasū-2,4.9 . akaraṇatvāc ca na doṣas tathā hi darśayati . brasū-2,4.10 . pañcavṛttir manovat vyapadiśyate . brasū-2,4.11 . aṇuś ca . brasū-2,4.12 . jyotir ādyadhiṣṭhānaṁ tu tadāmananātprāṇavatā śabdāt . brasū-2,4.13 . tasya ca nityatvāt . brasū-2,4.14 . ta indriyāṇi tadvyapadeśād anyatra śreṣṭhāt . brasū-2,4.15 . bhedaśruter vailakṣaṇyāc ca . brasū-2,4.16 . saṁjñāmūrtikḷptis tu trivṛtkurvata upadeśāt . brasū-2,4.17 . māṁsādi bhaumaṁ yathāśabdamitarayoś ca . brasū-2,4.18 . vaiśeṣyāt tu tadvādas tadvādaḥ . brasū-2,4.19 . |
तृतीय अध्याय ( साधना ) // tṛtīya adhyāya ( sādhanā )
width="50%"| |
चतुर्थ अध्याय ( फल ) // caturtha adhyāya ( phala )
width="50%"| |