Кали хридая стотра

Материал из Шайвавики
Перейти к: навигация, поиск

॥ श्रीकालिकाहृदयम् ॥

॥ श्रीगणेशाय नमः ॥

॥ श्रीउमामहेश्वराभ्यां नमः ॥

अथ श्रीकालीहृदयप्रारम्भः ।

श्रीमहाकाल उवाच । महाकौतूहलस्तोत्रं हृदयाख्यं महोत्तमम् । शृणु प्रिये महागोप्यं दक्षिणायाः सुगोपितम् ॥ १॥

अवाच्यमपि वक्ष्यामि तव प्रीत्या प्रकाशितम् । अन्येभ्यः कुरु गोप्यं च सत्यं सत्यं च शैलजे ॥ २॥

श्रीदेव्युवाच । कस्मिन् युगे समुत्पन्नं केन स्तोत्रं कृतं पुरा । तत्सर्वं कथ्यतां शम्भो दयानिधे महेश्वर ॥ ३॥

श्रीमहाकाल उवाच । पुरा प्रजापतेः शीर्षच्छेदनं कृतवानहम् । ब्रह्महत्याकृतैः पापैर्भैरवत्वं ममागतम् ॥ ४॥

ब्रह्महत्याविनाशाय कृतं स्तोत्रं मया प्रिये । कृत्याविनाशकं स्तोत्रं ब्रह्महत्यापहारकम् ॥ ५॥

ॐ अस्य श्रीदक्षिणकाल्या हृदयस्तोत्रमन्त्रस्य श्रीमहाकाल ऋषिः । उष्णिक्छन्दः । श्रीदक्षिणकालिका देवता । क्रीं बीजं । ह्रीं शक्तिः । नमः कीलकं । सर्वत्र सर्वदा जपे विनियोगः ॥

अथ हृदयादिन्यासः । ॐ क्रां हृदयाय नमः । ॐ क्रीं शिरसे स्वाहा । ॐ क्रूं शिखायै वषट् । ॐ क्रैं कवचाय हुं । ॐ क्रौं नेत्रत्रयाय वौषट् । ॐ क्रः अस्त्राय फट् ॥

इति हृदयादिन्यासः ॥

अथ ध्यानम् । ॐ ध्यायेत्कालीं महामायां त्रिनेत्रां बहुरूपिणीम् । चतुर्भुजां ललजिह्वां पूर्णचन्द्रनिभाननाम् ॥ १॥

नीलोत्पलदलप्रख्यां शत्रुसङ्घविदारिणीम् । नरमुण्डं तथा खङ्गं कमलं वरदं तथा ॥ २॥

बिभ्राणां रक्तवदनां दंष्ट्रालीं घोररूपिणीम् । अट्टाट्टहासनिरतां सर्वदा च दिगम्बराम् ॥ ३॥

शवासनस्थितां देवीं मुण्डमालाविभूषिताम् । इति ध्यात्वा महादेवीं ततस्तु हृदयं पठेत् ॥ ४॥

ॐ कालिका घोररूपाढया सर्वकामफलप्रदा । सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॥ ५॥

ह्रींह्रींस्वरूपिणी श्रेष्ठा त्रिषु लोकेषु दुर्लभा । तव स्नेहान्मया ख्यातं न देयं यस्य कस्यचित् ॥ ६॥

अथ ध्यानं प्रवक्ष्यामि निशामय परात्मिके । यस्य विज्ञानमात्रेण जीवन्मुक्तो भविष्यति ॥ ७॥

नागयज्ञोपवीताञ्च चन्द्रार्द्धकृतशेखराम् । जटाजूटाञ्च सञ्चिन्त्य महाकालसमीपगाम् ॥ ८॥

एवं न्यासादयः सर्वे ये प्रकुर्वन्ति मानवाः । प्राप्नुवन्ति च ते मोक्षं सत्यं सत्यं वरानने ॥ ९॥

यन्त्रं श्रृणु परं देव्याः सर्वार्थसिद्धिदायकम् । गोप्यं गोप्यतरं गोप्यं गोप्यं गोप्यतरं महत् ॥ १०॥

त्रिकोणं पञ्चकं चाष्टकमलं भूपुरान्वितम् । मुण्डपङ्क्तिं च ज्वालां च कालीयन्त्रं सुसिद्धिदम् ॥ ११॥

मन्त्रं तु पूर्वकथितं धारयस्व सदा प्रिये । देव्या दक्षिणकाल्यास्तु नाममालां निशामय ॥ १२॥

काली दक्षिणकाली च कृष्णरूपा परात्मिका । मुण्डमाला विशालाक्षी सृष्टिसंहारकारिका ॥ १३ ॥

स्थितिरूपा महामाया योगनिद्रा भगात्मिका । भगसर्पिःपानरता भगोद्योता भगाङ्गजा ॥ १४ ॥

आद्या सदा नवा घोरा महातेजाः करालिका । प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती ॥ १५॥

एतानि नाममाल्यानि ये पठन्ति दिने दिने । तेषां दासस्य दासोऽहं सत्यं सत्यं महेश्वरि ॥ १६॥

ॐ कालीं कालहरां देवी कङ्कालबीजरूपिणीम् । कालरूपां कलातीतां कालिकां दक्षिणां भजे ॥ १७॥

कुण्डगोलप्रियां देवीं खयम्भूकुसुमे रताम् । रतिप्रियां महारौद्रीं कालिकां प्रणमाम्यहम् ॥ १८॥

दूतीप्रियां महादूतीं दूतीयोगेश्वरीं पराम् । दूतोयोगोद्भवरतां दूतीरूपां नमाम्यहम् ॥ १९॥

क्रींमन्त्रेण जलं जप्त्वा सप्तधा सेचनेन तु । सर्वे रोगा विनश्यन्ति नात्र कार्या विचारणा ॥ २०॥

क्रींस्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः । तिलकं क्रियते प्राज्ञैर्लोको वश्यो भवेत्सदा ॥ २१॥

क्रीं हूं ह्रीं मन्त्रजप्तैश्च ह्यक्षतैः सप्तभिः प्रिये । महाभयविनाशश्च जायते नात्र संशयः ॥ २२॥

क्रीं ह्रीं ह्रूं स्वाहा मन्त्रेण श्मशानाग्निं च मन्त्रयेत् । शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्भविष्यति ॥ २३॥

ह्रूं ह्रीं क्रीं चैव उच्चाटे पुष्पं संशोध्य सप्तधा । रिपूणां चैव चोच्चाटं नयत्येव न संशयः ॥ २४॥

आकर्षणे च क्रीं क्रीं क्रीं जप्त्वाऽक्षतान् प्रतिक्षिपेत् । सहस्रयोजनस्था च शीघ्रमागच्छति प्रिये ॥ २५॥

क्रीं क्रीं क्रीं ह्रूं ह्रूं ह्रीं ह्रीं च कज्जलं शोधितं तथा । तिलकेन जगन्मोहः सप्तधा मन्त्रमाचरेत् ॥ २६॥

हृदयं परमेशानि सर्वपापहरं परम् । अश्वमेधादियज्ञानां कोटिकोटिगुणोत्तरम् ॥ २७॥

कन्यादानादिदानानां कोटिकोटिगुणं फलम् । दूतीयागादियागानां कोटिकोटिफलं स्मृतम् ॥ २८॥

गङ्गादिसर्वतीर्थानां फलं कोटिगुणं स्मृतम् । एकधा पाठमात्रेण सत्यं सत्यं मयोदितम् ॥ २९॥

कौमारीस्वेष्टरूपेण पूजां कृत्वा विधानतः । पठेत्स्तोत्रं महेशानि जीवन्मुक्तः स उच्यते ॥ ३०॥

रजस्वलाभगं दृष्ट्वा पठेदेकाग्रमानसः । लभते परमं स्थानं देवीलोके वरानने ॥ ३१॥

महादुःखे महारोगे महासङ्कटके दिने । महाभये महाघोरे पठेतस्तोत्रं महोत्तमम् । सत्यं सत्यं पुनः सत्यं गोपायेन्मातृजारवत् ॥ ३२॥

इति श्रीकालीहृदयं समाप्तम् ॥