Лалита-сахасранама-стотра-пхаластути

Материал из Шайвавики
Перейти к: навигация, поиск

Шри Лалита-сахасранама-стотра-пхаластути (санскр. श्री लालीता सहस्रनाम स्तोत्रम् फलास्थि, śrī lalitā sahasranāma stotraṃ phalāsthi IAST) — часть Лалита-сахасранама-стотры. Так же может называться Шри Лалита-сахасранама-стотра-уттарабхага (санскр. श्री लालीता सहस्रनाम स्तोत्रम् उत्तरभाग, śrī lalitā sahasranāma stotraṃ uttarabhāga IAST). Является завершающей частью стотры. Не читается во время ритуала — причина в том, что в состав пхала-стути всегда входят лишь результаты чтения стотры.




Лалита-сахасранама
Шри Лалита-сахасранама-стотра-пурвабхага
Шри Лалита-сахасра-нама-стотра

Шри Лалита-сахасранама-стотра-пхаластути

Текст

॥ फलश्रुतिः ॥
.. phalaśrutiḥ ..


इत्येन्नामसाहस्रं कथितं ते घतोद्भव ।
रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ॥ १ ॥
ityennāmasāhasraṁ kathitaṁ te ghatodbhava .
rahasyānāṁ rahasyaṁ ca lalitāprītidāyakam .. 1 ..

अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ।
सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ॥ २ ॥
anena sadṛśaṁ stotraṁ na bhūtaṁ na bhaviṣyati .
sarvarogapraśamanaṁ sarvasampatpravardhanam .. 2 ..

सर्वापमृत्युशमनं कालमृत्युनिवारणम् ।
सरज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ ३ ॥
sarvāpamṛtyuśamanaṁ kālamṛtyunivāraṇam .
sarajvarārtiśamanaṁ dīrghāyuṣyapradāyakam .. 3 ..

पुत्रप्रदमपुत्राणां प्रुषार्थप्रदायकम् ।
इदं विशेषाच्छ्त्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ॥ ४ ॥
putrapradamaputrāṇāṁ pruṣārthapradāyakam .
idaṁ viśeṣācchtrīdevyāḥ stotraṁ prītividhāyakam .. 4 ..

जपेन्नित्यं प्रयत्नेन ललितोपास्ति तत्परः ।
प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ॥ ५ ॥
japennityaṁ prayatnena lalitopāsti tatparaḥ .
prātaḥ snātvā vidhānena sandhyākarma samāpya ca .. 5 ..

पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ।
विद्यां जपेत्सहस्रं वा त्रिशतं शतमेव वा ॥ ६ ॥
pūjāgṛhaṁ tato gatvā cakrarājaṁ samarcayet .
vidyāṁ japetsahasraṁ vā triśataṁ śatameva vā .. 6 ..

रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः ।
जममध्ये सकृच्चापि य एतत्पठते सुधीः ॥ ७ ॥
rahasyanāmasāhasramidaṁ paścātpaṭhennaraḥ .
jamamadhye sakṛccāpi ya etatpaṭhate sudhīḥ .. 7 ..

तस्यपुण्यफलं वक्ष्ये शृणु त्वं कुम्भसम्भव ।
गङ्गादिसर्वतीर्थेषु यः स्नायात् कोटिजन्मसु ॥ ८ ॥
tasyapuṇyaphalaṁ vakṣye śṛṇu tvaṁ kumbhasambhava .
gaṅgādisarvatīrtheṣu yaḥ snāyāt koṭijanmasu .. 8 ..

कोटिलिङ्गप्रतिष्ठां च यः कुर्यादविमुक्तके ।
कुरुक्षेत्रे तु यो दद्यात् कोटिवारं रविग्रहे ॥ ९ ॥
koṭiliṅgapratiṣṭhāṁ ca yaḥ kuryādavimuktake .
kurukṣetre tu yo dadyāt koṭivāraṁ ravigrahe .. 9 ..

कोटिं सुवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ।
यः कोटिं हयमेधानामाहरेद्गाङ्गरोधसि ॥ १० ॥
koṭiṁ suvarṇabhārāṇāṁ śrotriyeṣu dvijanmasu .
yaḥ koṭiṁ hayamedhānāmāharedgāṅgarodhasi .. 10 ..

आचरेत् कूपकोटीर्यो निर्जले मरुभूतले ।
दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ॥ ११ ॥
ācaret kūpakoṭīryo nirjale marubhūtale .
durbhikṣe yaḥ pratidinaṁ koṭibrāhmaṇabhojanam .. 11 ..

श्रद्धया परया कुर्यात् सहस्रपरिवत्सरान् ।
तत्पुण्यकोटिगुणितं भवेत् पुण्यमनुत्तमम् ॥ १२ ॥
śraddhayā parayā kuryāt sahasraparivatsarān .
tatpuṇyakoṭiguṇitaṁ bhavet puṇyamanuttamam .. 12 ..

रहस्यनामसाहस्रे नाम्नोऽप्येकस्य कीर्तनात् ।
रहस्यनामसाहस्रे नामैकमपि यः पठेत् ॥ १३ ॥
rahasyanāmasāhasre nāmno'pyekasya kīrtanāt .
rahasyanāmasāhasre nāmaikamapi yaḥ paṭhet .. 13 ..

तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ।
नित्यकर्माननुष्ठानान्निषिद्धकरणादपि ॥ १४ ॥
tasya pāpāni naśyanti mahāntyapi na saṁśayaḥ .
nityakarmānanuṣṭhānānniṣiddhakaraṇādapi .. 14 ..

यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवम् ।
बहुनाऽत्र किमुक्तेन शृणु त्वं कलशीसुत ॥ १५ ॥
yatpāpaṁ jāyate puṁsāṁ tatsarvaṁ naśyati dhruvam .
bahunā'tra kimuktena śṛṇu tvaṁ kalaśīsuta .. 15 ..

अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने ।
तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश ॥ १६ ॥
atraikanāmno yā śaktiḥ pātakānāṁ nivartane .
tannivartyamaghaṁ kartuṁ nālaṁ lokāścaturdaśa .. 16 ..

यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति ।
स हि शीतनिवृत्त्यर्थं हिमशैलं निषेवते ॥ १७ ॥
yastyaktvā nāmasāhasraṁ pāpahānimabhīpsati .
sa hi śītanivṛttyarthaṁ himaśailaṁ niṣevate .. 17 ..

भक्तो यः कीर्तयेन्नित्यमिदं नामसहस्रकम् ।
तस्मै श्रीललितादेवी प्रीताऽभीष्टं प्रयच्छति ॥ १८ ॥
bhakto yaḥ kīrtayennityamidaṁ nāmasahasrakam .
tasmai śrīlalitādevī prītā'bhīṣṭaṁ prayacchati .. 18 ..

अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ।
नित्यं सङ्कीर्तनाशक्तः कीर्तयेत् पुण्यवासरे ॥ १९ ॥
akīrtayannidaṁ stotraṁ kathaṁ bhakto bhaviṣyati .
nityaṁ saṅkīrtanāśaktaḥ kīrtayet puṇyavāsare .. 19 ..

संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने ।
नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ॥ २० ॥
saṁkrāntau viṣuve caiva svajanmatritaye'yane .
navamyāṁ vā caturdaśyāṁ sitāyāṁ śukravāsare .. 20 ..

कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः ।
पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम् ॥ २१ ॥
kīrtayennāmasāhasraṁ paurṇamāsyāṁ viśeṣataḥ .
paurṇamāsyāṁ candrabimbe dhyātvā śrīlalitāmbikām .. 21 ..

पञ्चोपचारैः सम्पूज्य पठेन्नामसहस्रकम् ।
सर्वे-रोगाः प्रणश्यन्ति दीर्घायुष्यं च विन्दति ॥ २२ ॥
pañcopacāraiḥ sampūjya paṭhennāmasahasrakam .
sarve-rogāḥ praṇaśyanti dīrghāyuṣyaṁ ca vindati .. 22 ..

अयमायुष्करो नाम प्रयोगः कल्पचोदितः ।
ज्वरार्तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् ॥ २३ ॥
ayamāyuṣkaro nāma prayogaḥ kalpacoditaḥ .
jvarārtaṁ śirasi spṛṣṭvā paṭhennāmasahasrakam .. 23 ..

तत्क्षणात्प्रशमं याति शिरस्तोदो ज्वरोऽपि च ।
सर्वव्याधिनिवृत्त्यर्थं स्पृष्ट्वा भस्म जपेदिदम् ॥ २४ ॥
tatkṣaṇātpraśamaṁ yāti śirastodo jvaro'pi ca .
sarvavyādhinivṛttyarthaṁ spṛṣṭvā bhasma japedidam .. 24 ..

तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् ।
जलं संमन्त्र्य कुम्भस्थं नामसाहस्रतो मुने ॥ २५ ॥
tadbhasmadhāraṇādeva naśyanti vyādhayaḥ kṣaṇāt .
jalaṁ saṁmantrya kumbhasthaṁ nāmasāhasrato mune .. 25 ..

अभिषिञ्चेद्ग्रहग्रस्तान् ग्रहा नश्यन्ति तत्क्षणात् ।
सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ॥ २६ ॥
abhiṣiñcedgrahagrastān grahā naśyanti tatkṣaṇāt .
sudhāsāgaramadhyasthāṁ dhyātvā śrīlalitāmbikām .. 26 ..

यः पठेन्नामसाहस्रं विषं तस्य विनश्यति ।
वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम् ॥ २७ ॥
yaḥ paṭhennāmasāhasraṁ viṣaṁ tasya vinaśyati .
vandhyānāṁ putralābhāya nāmasāhasramantritam .. 27 ..

नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद्ध्रुवम् ।
देव्याः पाशेन सम्बद्धामाकृष्टामङ्कुशेन च ॥ २८ ॥
navanītaṁ pradadyāttu putralābho bhaveddhruvam .
devyāḥ pāśena sambaddhāmākṛṣṭāmaṅkuśena ca .. 28 ..

ध्यात्वाऽभीष्टां स्त्रियं रात्रौ जपेन्नामसहस्रकम् ।
आयाति स्वसमीपं सा यद्यप्यन्तः पुरं गता ॥ २९ ॥
dhyātvā'bhīṣṭāṁ striyaṁ rātrau japennāmasahasrakam .
āyāti svasamīpaṁ sā yadyapyantaḥ puraṁ gatā .. 29 ..

राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः ।
त्रिरात्रं यः पठेदेतच्छ्त्रीदेवीध्यानतत्परः ॥ ३० ॥
rājākarṣaṇakāmaścedrājāvasathadiṅmukhaḥ .
trirātraṁ yaḥ paṭhedetacchtrīdevīdhyānatatparaḥ .. 30 ..

स राजा पारवश्येन तुरङ्गं वा मतङ्गजम् ।
आरुह्यायाति निकटं दासवत्प्रणिपत्य च ॥ ३१ ॥
sa rājā pāravaśyena turaṅgaṁ vā mataṅgajam .
āruhyāyāti nikaṭaṁ dāsavatpraṇipatya ca .. 31 ..

तस्मै राज्यं च कोशं च ददात्येव वशं गतः ।
रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ॥ ३२ ॥
tasmai rājyaṁ ca kośaṁ ca dadātyeva vaśaṁ gataḥ .
rahasyanāmasāhasraṁ yaḥ kīrtayati nityaśaḥ .. 32 ..

तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ।
यत्स्विदं नामसाहस्रं सकृत्पठति भक्तिमान् ॥ ३३ ॥
tanmukhālokamātreṇa muhyellokatrayaṁ mune .
yatsvidaṁ nāmasāhasraṁ sakṛtpaṭhati bhaktimān .. 33 ..

तस्य ये शत्रवस्तेषां निहन्ता श्रभेस्वरः ।
यो वाऽभिचारं कुरुते नामसाहस्रपाठके ॥ ३४ ॥
tasya ye śatravasteṣāṁ nihantā śrabhesvaraḥ .
yo vā'bhicāraṁ kurute nāmasāhasrapāṭhake .. 34 ..

निवर्त्य तत्क्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयम् ।
ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकम् ॥ ३५ ॥
nivartya tatkriyāṁ hanyāttaṁ vai pratyaṅgirā svayam .
ye krūradṛṣṭyā vīkṣante nāmasāhasrapāṭhakam .. 35 ..

तानन्धान् कुरुते क्षिप्रं स्वयं मार्ताण्डभैरवः ।
धनं यो हरते चोरैर्नामसाहस्रजापिनः ॥ ३६ ॥
tānandhān kurute kṣipraṁ svayaṁ mārtāṇḍabhairavaḥ .
dhanaṁ yo harate corairnāmasāhasrajāpinaḥ .. 36 ..

यत्र कुत्र स्थितं वाऽपि क्षेत्रपालो निहन्ति तम् ।
विद्यासु कुरुते वादं यो विद्वान्नामजापिना ॥ ३७ ॥
yatra kutra sthitaṁ vā'pi kṣetrapālo nihanti tam .
vidyāsu kurute vādaṁ yo vidvānnāmajāpinā .. 37 ..

य वाक्स्तम्भनं सद्यः करोति नकुलेश्वरी ।
यो राजा कुरुते वैरं नामसाहस्रजापिना ॥ ३८ ॥
ya vākstambhanaṁ sadyaḥ karoti nakuleśvarī .
yo rājā kurute vairaṁ nāmasāhasrajāpinā .. 38 ..

चतुरङ्गबलं तस्य दण्डिनी संहरेत् स्वयम् ।
यः पठेन्नामसाहस्रं षण्मासं भक्तिसंयुतः ॥ ३९ ॥
caturaṅgabalaṁ tasya daṇḍinī saṁharet svayam .
yaḥ paṭhennāmasāhasraṁ ṣaṇmāsaṁ bhaktisaṁyutaḥ .. 39 ..

लक्ष्मीश्चान्चल्यरहिता सदा तिष्ठति तद्गृहे ।
मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ॥ ४० ॥
lakṣmīścāncalyarahitā sadā tiṣṭhati tadgṛhe .
māsamekaṁ pratidinaṁ trivāraṁ yaḥ paṭhennaraḥ .. 40 ..

भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः ।
यस्त्वेकवारं पठति पक्षमात्रमतन्द्रितः ॥ ४१ ॥
bhāratī tasya jihvāgre raṅge nṛtyati nityaśaḥ .
yastvekavāraṁ paṭhati pakṣamātramatandritaḥ .. 41 ..

मुह्यन्ति कामघशगा मृगाक्ष्यस्तस्य वीक्षणात् ।
यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ॥ ४२ ॥
muhyanti kāmaghaśagā mṛgākṣyastasya vīkṣaṇāt .
yaḥ paṭhennāmasāhasraṁ janmamadhye sakṛnnaraḥ .. 42 ..

तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ।
यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ॥ ४३ ॥
taddṛṣṭigocarāḥ sarve mucyante sarvakilbiṣaiḥ .
yo vetti nāmasāhasraṁ tasmai deyaṁ dvijanmane .. 43 ..

अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ।
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ॥ ४४ ॥
annaṁ vastraṁ dhanaṁ dhānyaṁ nānyebhyastu kadācana .
śrīmantrarājaṁ yo vetti śrīcakraṁ yaḥ samarcati .. 44 ..

यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ।
तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता ॥ ४५ ॥
yaḥ kīrtayati nāmāni taṁ satpātraṁ vidurbudhāḥ .
tasmai deyaṁ prayatnena śrīdevīprītimicchatā .. 45 ..

न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ।
पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ॥ ४६ ॥
na kīrtayati nāmāni mantrarājaṁ na vetti yaḥ .
paśutulyaḥ sa vijñeyastasmai dattaṁ nirarthakam .. 46 ..

परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः ।
श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते ॥ ४७ ॥
parīkṣya vidyāviduṣastebhyo dadyādvicakṣaṇaḥ .
śrīmantrarājasadṛśo yathā mantro na vidyate .. 47 ..

देवता ललितातुल्या यथा नास्ति घटोद्भव ।
रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ॥ ४८ ॥
devatā lalitātulyā yathā nāsti ghaṭodbhava .
rahasyanāmasāhasratulyā nāsti tathā stutiḥ .. 48 ..

लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ।
समर्चयेत् सदा भक्त्या तस्य तुष्यति सुन्दरी ॥ ४९ ॥
likhitvā pustake yastu nāmasāhasramuttamam .
samarcayet sadā bhaktyā tasya tuṣyati sundarī .. 49 ..

बहुनाऽत्र किमुक्तेन शृणु त्वं कुम्भसम्भव ।
नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु दृश्यते ॥ ५० ॥
bahunā'tra kimuktena śṛṇu tvaṁ kumbhasambhava .
nānena sadṛśaṁ stotraṁ sarvatantreṣu dṛśyate .. 50 ..

तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ।
एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत् सकृत् ॥ ५१ ॥
tasmādupāsako nityaṁ kīrtayedidamādarāt .
ebhirnāmasahasraistu śrīcakraṁ yo'rcayet sakṛt .. 51 ..

पद्मैर्वा तुलसीपुष्पैः कल्हारैर्वा कदम्बकैः ।
चम्पकैर्जातिकुसुमैर्मल्लिकाकरवीरकैः ॥ ५२ ॥
padmairvā tulasīpuṣpaiḥ kalhārairvā kadambakaiḥ .
campakairjātikusumairmallikākaravīrakaiḥ .. 52 ..

उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः ।
अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ॥ ५३ ॥
utpalairbilvapatrairvā kundakesarapāṭalaiḥ .
anyaiḥ sugandhikusumaiḥ ketakīmādhavīmukhaiḥ .. 53 ..

तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ।
सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ॥ ५४ ॥
tasya puṇyaphalaṁ vaktuṁ na śaknoti maheśvaraḥ .
sā vetti lalitādevī svacakrārcanajaṁ phalam .. 54 ..

अन्ये कथं विजानीयुर्ब्रह्माद्याः स्वल्पमेधसः ।
प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः ॥ ५५ ॥
anye kathaṁ vijānīyurbrahmādyāḥ svalpamedhasaḥ .
pratimāsaṁ paurṇamāsyāmebhirnāmasahasrakaiḥ .. 55 ..

रात्रौ यश्चक्रराजस्थामर्चयेत् परदेवताम् ।
स एव ललितारूपस्तद्रूपा ललिता स्वयम् ॥ ५६ ॥
rātrau yaścakrarājasthāmarcayet paradevatām .
sa eva lalitārūpastadrūpā lalitā svayam .. 56 ..

न तयोर्विद्यते भेदो भेदकृत् पापकृद्भवेत् ।
महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ॥ ५७ ॥
na tayorvidyate bhedo bhedakṛt pāpakṛdbhavet .
mahānavamyāṁ yo bhaktaḥ śrīdevīṁ cakramadhyagām .. 57 ..

अर्चयेन्नामसाहस्रैस्तस्य मुक्तिः करे स्थिता ।
यस्तु नामसहस्रेण शुक्रवारे समर्चयेत् ॥ ५८ ॥
arcayennāmasāhasraistasya muktiḥ kare sthitā .
yastu nāmasahasreṇa śukravāre samarcayet .. 58 ..

चक्रराजे महादेवीं तस्य पुण्यफलं शृणु ।
सर्वान् कामानवाप्येह सर्वसौभाग्यसंयुतः ॥ ५९ ॥
cakrarāje mahādevīṁ tasya puṇyaphalaṁ śṛṇu .
sarvān kāmānavāpyeha sarvasaubhāgyasaṁyutaḥ .. 59 ..

पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान् यथेप्सितान् ।
अन्ते श्रीललितादेव्याः सायुज्यमतिदुर्लभम् ॥ ६० ॥
putrapautrādisaṁyukto bhuktvā bhogān yathepsitān .
ante śrīlalitādevyāḥ sāyujyamatidurlabham .. 60 ..

प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः ।
यः सहस्रं ब्राहमणानामेभिर्नामसहस्रकैः ॥ ६१ ॥
prārthanīyaṁ śivādyaiśca prāpnotyeva na saṁśayaḥ .
yaḥ sahasraṁ brāhamaṇānāmebhirnāmasahasrakaiḥ .. 61 ..

समर्च्य भोजयेद्भक्त्या पायसापूपषड्रसैः ।
तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति ॥ ६२ ॥
samarcya bhojayedbhaktyā pāyasāpūpaṣaḍrasaiḥ .
tasmai prīṇāti lalitā svasāmrājyaṁ prayacchati .. 62 ..

न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते ।
निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ॥ ६३ ॥
na tasya durlabhaṁ vastu triṣu lokeṣu vidyate .
niṣkāmaḥ kīrtayedyastu nāmasāhasramuttamam .. 63 ..

ब्रह्मज्ञानमवाप्नोति येन मुच्यते बन्धनात् ।
धनार्थी धनमाप्नोति यशोऽर्थी चाप्नुयाद्यशः ॥ ६४ ॥
brahmajñānamavāpnoti yena mucyate bandhanāt .
dhanārthī dhanamāpnoti yaśo'rthī cāpnuyādyaśaḥ .. 64 ..

विद्यार्थी चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात् ।
नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ॥ ६५ ॥
vidyārthī cāpnuyādvidyāṁ nāmasāhasrakīrtanāt .
nānena sadṛśaṁ stotraṁ bhogamokṣapradaṁ mune .. 65 ..

कीर्तनीयमिदं तस्माद्भोगमोक्षार्थिभिर्नरैः ।
चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ॥ ६६ ॥
kīrtanīyamidaṁ tasmādbhogamokṣārthibhirnaraiḥ .
caturāśramaniṣṭhaiśca kīrtanīyamidaṁ sadā .. 66 ..

स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये ।
कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ॥ ६७ ॥
svadharmasamanuṣṭhānavaikalyaparipūrtaye .
kalau pāpaikabahule dharmānuṣṭhānavarjite .. 67 ..

नामसङ्कीर्तनं मुक्त्वा नृणां नान्यत् परायणम् ।
लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम् ॥ ६८ ॥
nāmasaṅkīrtanaṁ muktvā nṛṇāṁ nānyat parāyaṇam .
laukikādvacanānmukhyaṁ viṣṇunāmānukīrtanam .. 68 ..

विष्णुनामसहस्राश्च शिवनामैकमुत्तमम् ।
शिवनामसहस्राश्च देव्या नामैकमुत्तमम् ॥ ६९ ॥
viṣṇunāmasahasrāśca śivanāmaikamuttamam .
śivanāmasahasrāśca devyā nāmaikamuttamam .. 69 ..

देवीनामसहस्राणि कोटिशः सन्ति कुम्भज ।
तेषु मुख्यं दशविधं नामसाहस्रमुच्यते ॥ ७० ॥
devīnāmasahasrāṇi koṭiśaḥ santi kumbhaja .
teṣu mukhyaṁ daśavidhaṁ nāmasāhasramucyate .. 70 ..

रहस्यनामसाहस्रमिदं शस्तं दशस्वपि ।
तस्मात् सङ्कीर्तयेन्नित्यं कलिदोषनिवृत्तये ॥ ७१ ॥
rahasyanāmasāhasramidaṁ śastaṁ daśasvapi .
tasmāt saṅkīrtayennityaṁ kalidoṣanivṛttaye .. 71 ..

मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ।
विष्णुनामपराः केचिच्छिवनामपराः परे ॥ ७२ ॥
mukhyaṁ śrīmātṛnāmeti na jānanti vimohitāḥ .
viṣṇunāmaparāḥ kecicchivanāmaparāḥ pare .. 72 ..

न कश्चिदपि लोकेषु ललितानामतत्परः ।
येनान्यदेवतानाम कीर्तितं जन्मकोटिषु ॥ ७३ ॥
na kaścidapi lokeṣu lalitānāmatatparaḥ .
yenānyadevatānāma kīrtitaṁ janmakoṭiṣu .. 73 ..

तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ।
चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ॥ ७४ ॥
tasyaiva bhavati śraddhā śrīdevīnāmakīrtane .
carame janmani yathā śrīvidyopāsako bhavet .. 74 ..

नामसाहस्रपाठश्च तथा चरमजन्मनि ।
यथैव विरला लोके श्रीविद्याचारवेदिनः ॥ ७५ ॥
nāmasāhasrapāṭhaśca tathā caramajanmani .
yathaiva viralā loke śrīvidyācāravedinaḥ .. 75 ..

तथैव विरला गुह्यनामसाहस्रपाठकाः ।
मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ॥ ७६ ॥
tathaiva viralā guhyanāmasāhasrapāṭhakāḥ .
mantrarājajapaścaiva cakrarājārcanaṁ tathā .. 76 ..

रहस्यनामपाठश्च नाल्पस्य तपसः फलम् ।
अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ॥ ७७ ॥
rahasyanāmapāṭhaśca nālpasya tapasaḥ phalam .
apaṭhannāmasāhasraṁ prīṇayedyo maheśvarīm .. 77 ..

स चक्षुषा विना रूपं पश्येदेव विमूढधीः ।
रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ॥ ७८ ॥
sa cakṣuṣā vinā rūpaṁ paśyedeva vimūḍhadhīḥ .
rahasyanāmasāhasraṁ tyaktvā yaḥ siddhikāmukaḥ .. 78 ..

स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ।
यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् ॥ ७९ ॥
sa bhojanaṁ vinā nūnaṁ kṣunnivṛttimabhīpsati .
yo bhakto lalitādevyāḥ sa nityaṁ kīrtayedidam .. 79 ..

नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ।
रस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् ॥ ८० ॥
nānyathā prīyate devī kalpakoṭiśatairapi .
rasmādrahasyanāmāni śrīmātuḥ prayataḥ paṭhet .. 80 ..

इति ते कथितं स्तोत्रं रहस्यं कुम्भसम्भव ।
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ॥ ८१ ॥
iti te kathitaṁ stotraṁ rahasyaṁ kumbhasambhava .
nāvidyāvedine brūyānnābhaktāya kadācana .. 81 ..

यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ।
पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् ॥ ८२ ॥
yathaiva gopyā śrīvidyā tathā gopyamidaṁ mune .
paśutulyeṣu na brūyājjaneṣu stotramuttamam .. 82 ..

यो ददाति विमूढात्मा श्रीविद्यारहिताय च ।
तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान् स्मृतः ॥ ८३ ॥
yo dadāti vimūḍhātmā śrīvidyārahitāya ca .
tasmai kupyanti yoginyaḥ so'narthaḥ sumahān smṛtaḥ .. 83 ..

रहस्यनामसाहस्रं तस्मात् सङ्गोपयेदिदम् ।
स्वतन्त्रेण मया नोक्तं तवापि कलशीसुत ॥ ८४ ॥
rahasyanāmasāhasraṁ tasmāt saṅgopayedidam .
svatantreṇa mayā noktaṁ tavāpi kalaśīsuta .. 84 ..

ललिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमम् ।
कीर्तनीयमिदं भक्त्या कुम्भयोने निरन्तरम् ॥ ८५ ॥
lalitāpreraṇenaiva mayoktaṁ stotramuttamam .
kīrtanīyamidaṁ bhaktyā kumbhayone nirantaram .. 85 ..

तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ।
श्रीसूत उवाच ।
इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम् ॥ ८६ ॥
आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ॥ ८७ ॥
tena tuṣṭā mahādevī tavābhīṣṭaṁ pradāsyati .
śrīsūta uvāca .
ityuktvā śrīhayagrīvo dhyātvā śrīlalitāmbikām .. 86 ..
ānandamagnahṛdayaḥ sadyaḥ pulakito'bhavat .. 87 ..


॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्य संवादे श्रीललितानामसहस्रफलनिरूपणं सम्पूर्णम् ॥
.. iti śrībrahmāṇḍapurāṇe uttarakhaṇḍe śrīhayagrīvāgastya saṁvāde śrīlalitānāmasahasraphalanirūpaṇaṁ sampūrṇam ..

Лалита-сахасранама
Шри Лалита-сахасранама-стотра-пурвабхага
Шри Лалита-сахасра-нама-стотра

Шри Лалита-сахасранама-стотра-пхаластути

Примечания