Сурья-мандала-аштакам

Материал из Шайвавики
Перейти к: навигация, поиск
                    अथ सूर्यमण्डलाष्टकम्

नमः सवित्रे जगदेकचक्षुषे । जगत्प्रसूती स्थिति नाश हेतवे ।
त्रयीमयाय त्रिगुणात्म धारिणे । विरञ्चि नारायण शङ्करात्मन् ॥ १॥

यन्मण्डलं दीप्तिकरं विशालं । रत्नप्रभं तीव्रमनादि रूपम् ।
दारिद्र्य दुखक्षयकारणं च । पुनातु मां तत्सवितुर्वरेण्यम् ॥ २॥

यन्मण्डलं देव गणैः सुपूजितं । विप्रैः स्तुतं भावनमुक्ति कोविदम् ।
तं देवदेवं प्रणमामि सूर्यं । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ३॥

यन्मण्डलं ज्ञान घनं त्वगम्यं । त्रैलोक्य पूज्यं त्रिगुणात्म रूपम् ।
समस्त तेजोमय दिव्यरूपं । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ४॥

यन्मण्डलं गुढ़मति प्रबोधं । धर्मस्य वृद्धिं कुरुते जनानाम् ।
यत्सर्व पाप क्षयकारणं च । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ५॥

यन्मण्डलं व्याधि विनाश दक्षं । यदृग्यजुः सामसु सम्प्रगीतम् ।
प्रकाशितं येन भूर्भुवः स्वः । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ६॥

यन्मण्डलं वेदविदो वदन्ति । गायन्ति यच्चारण सिद्ध सङ्घाः ।
यद्योगिनो योगजुषां च सङ्घाः । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ७॥

यन्मण्डलं सर्वजनेषु पूजितं । ज्योतिश्चकुर्यादिह मर्त्यलोके ।
यत्कालकल्प क्षयकारणं च । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ८॥

यन्मण्डलं विश्वसृजं प्रसीदमुत्पत्तिरक्षा प्रलय प्रगल्भम् ।
यस्मिञ्जगत्संहरतेऽखिलं च । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ९॥

यन्मण्डलं सर्वगतस्य विष्णोरात्मा । परं धाम विशुद्धतत्त्वम् ।
सूक्ष्मान्तरैर्योगपथानुगम्ये । पुनातु मां तत्सवितुर्वरेण्यम् ॥ १०॥

यन्मण्डलं वेदविदो विदन्ति । गायन्ति तच्चारणसिद्ध सङ्घाः ।
यन्मण्डलं वेदविदो स्मरन्ति । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ११॥

यन्मण्डलं वेदविदोपगीतं । यद्योगिनां योग पथानुगम्यम् ।
तत्सर्व वेदं प्रणमामि सूर्यं । पुनातु मां तत्सवितुर्वरेण्यम् ॥ १२॥