Шива-сахасранама-стотра (Рудра-ямала)
Шива-сахасранама-стотра
Вступление
.. śrī śivasahasranāmastotram rudrayāmalatantrantargata ..
«Тысяча восемь имён Шивы из Рудраямала-тантры»
॥ ॐ श्री गणेशाय नमः ॥
.. oṁ śrī gaṇeśāya namaḥ ..
॥ पूर्वपीठिका ॥
.. pūrvapīṭhikā ..
ओंकारनिलयं देवं गजवक्त्रं चतुर्भुजम् ।
पिचण्डिलमहं वन्दे सर्वविघ्नोपशान्तये ॥
oṁkāranilayaṁ devaṁ gajavaktraṁ caturbhujam .
picaṇḍilamahaṁ vande sarvavighnopaśāntaye ..
श्रुतिस्मृतिपुराणानामालयं करुणालयम् ।
नमामि भगवत्पादशंकरं लोकशंकरम् ॥
śrutismṛtipurāṇānāmālayaṁ karuṇālayam .
namāmi bhagavatpādaśaṁkaraṁ lokaśaṁkaram ..
शंकरं शंकराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनःपुनः ॥
śaṁkaraṁ śaṁkarācāryaṁ keśavaṁ bādarāyaṇam .
sūtrabhāṣyakṛtau vande bhagavantau punaḥpunaḥ ..
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनांपतिम् ।
वन्दे सूर्यशशांकवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शंकरम् ॥
vande śambhumumāpatiṁ suraguruṁ vande jagatkāraṇaṁ vande pannagabhūṣaṇaṁ mṛgadharaṁ vande paśūnāṁpatim .
vande sūryaśaśāṁkavahninayanaṁ vande mukundapriyaṁ vande bhaktajanāśrayaṁ ca varadaṁ vande śivaṁ śaṁkaram ..
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥
tava tattvaṁ na jānāmi kīdṛśo'si maheśvara .
yādṛśo'si mahādeva tādṛśāya namo namaḥ ..
ऋषय ऊचुः ।
सूत वेदार्थतत्त्वज्ञ शिवध्यानपरायण ।
मुक्त्युपायं वदास्मभ्यं कृपालो मुनिसत्तम ॥ १॥
ṛṣaya ūcuḥ .
sūta vedārthatattvajña śivadhyānaparāyaṇa .
muktyupāyaṁ vadāsmabhyaṁ kṛpālo munisattama .. 1..
कः सेव्यः सर्वदेवेषु को वा जप्यो मनुः सदा ।
स्थातव्यं कुत्र वा नित्यं किं वा सर्वार्थसाधकम् ॥ २॥
kaḥ sevyaḥ sarvadeveṣu ko vā japyo manuḥ sadā .
sthātavyaṁ kutra vā nityaṁ kiṁ vā sarvārthasādhakam .. 2..
श्री सूत उवाच ।
धन्यान्मन्यामहे नूनमनन्यशरणान्मुनीन् ।
वन्याशिनो वनेवासान् न्यस्तमानुष्यकल्मषान् ॥ ३॥
śrī sūta uvāca .
dhanyānmanyāmahe nūnamananyaśaraṇānmunīn .
vanyāśino vanevāsān nyastamānuṣyakalmaṣān .. 3..
भवद्भिः सर्ववेदार्थतत्त्वं ज्ञातमतन्द्रितैः ।
भवद्भिः सर्ववेदार्थो ज्ञात एवास्ति यद्यपि ॥ ४॥
bhavadbhiḥ sarvavedārthatattvaṁ jñātamatandritaiḥ .
bhavadbhiḥ sarvavedārtho jñāta evāsti yadyapi .. 4..
तथापि किञ्चिद्वक्ष्यामि यथा ज्ञातं मया तथा ।
पुरा कैलासशिखरे सुखासीनं जगत्प्रभुम् ॥ ५॥
tathāpi kiñcidvakṣyāmi yathā jñātaṁ mayā tathā .
purā kailāsaśikhare sukhāsīnaṁ jagatprabhum .. 5..
वेदान्तवेद्यमीशानं शंकरं लोकशंकरम् ।
विलोक्यातीव सन्तुष्टः षण्मुखः साम्बमीश्वरम् ॥ ६॥
vedāntavedyamīśānaṁ śaṁkaraṁ lokaśaṁkaram .
vilokyātīva santuṣṭaḥ ṣaṇmukhaḥ sāmbamīśvaram .. 6..
मत्वा कृतार्थमात्मानं प्रणिपत्य सदाशिवम् ।
पप्रच्छ सर्वलोकानां मुक्त्युपायं कृताञ्जलिः ॥ ७॥
matvā kṛtārthamātmānaṁ praṇipatya sadāśivam .
papraccha sarvalokānāṁ muktyupāyaṁ kṛtāñjaliḥ .. 7..
श्रीस्कन्द उवाच ।
विश्वेश्वर महादेव विष्णुब्रह्मादिवन्दित ।
देवानां मानवानां च किं मोक्षस्यास्ति साधनम् ॥ ८॥
śrīskanda uvāca .
viśveśvara mahādeva viṣṇubrahmādivandita .
devānāṁ mānavānāṁ ca kiṁ mokṣasyāsti sādhanam .. 8..
तव नामान्यनन्तानि सन्ति यद्यपि शंकर ।
तथापि तानि दिव्यानि न ज्ञायन्ते मयाधुना ॥ ९॥
tava nāmānyanantāni santi yadyapi śaṁkara .
tathāpi tāni divyāni na jñāyante mayādhunā .. 9..
प्रियाणि शिवनामानि सर्वाणि शिव यद्यपि ।
तथापि कानि रम्याणि तेषु प्रियतमानि ते ॥
priyāṇi śivanāmāni sarvāṇi śiva yadyapi .
tathāpi kāni ramyāṇi teṣu priyatamāni te ..
तानि सर्वार्थदान्यद्य कृपया वक्तुमर्हसि ॥ १०॥
tāni sarvārthadānyadya kṛpayā vaktumarhasi .. 10..
श्रीसूत उवाच ।
कुमारोदीरितां वाचं सर्वलोकहितावहाम् ।
श्रुत्वा प्रसन्नवदनस्तमुवाच सदाशिवः ॥ ११॥
śrīsūta uvāca .
kumārodīritāṁ vācaṁ sarvalokahitāvahām .
śrutvā prasannavadanastamuvāca sadāśivaḥ .. 11..
श्रीसदाशिव उवाच ।
साधु साधु महाप्राज्ञ सम्यक्पृष्ठं त्वयाधुना ।
यदिदानीम् त्वया पृष्टं तद्वक्ष्ये शृणु सादरम् ॥ १२॥
śrīsadāśiva uvāca .
sādhu sādhu mahāprājña samyakpṛṣṭhaṁ tvayādhunā .
yadidānīm tvayā pṛṣṭaṁ tadvakṣye śṛṇu sādaram .. 12..
एवमेव पुरा गौर्या पृष्टः काश्यामहं तदा ।
समाख्यातं मया सम्यक्सर्वेषां मोक्षसाधनम् ॥ १३॥
evameva purā gauryā pṛṣṭaḥ kāśyāmahaṁ tadā .
samākhyātaṁ mayā samyaksarveṣāṁ mokṣasādhanam .. 13..
दिव्यान्यनन्तनामानि सन्ति तन्मध्यगं परम् ।
अष्टोत्तरसहस्रं तु नाम्नां प्रियतरं मम ॥ १४॥
divyānyanantanāmāni santi tanmadhyagaṁ param .
aṣṭottarasahasraṁ tu nāmnāṁ priyataraṁ mama .. 14..
एकैकमेव तन्मध्ये नाम सर्वार्थसाधकम् ।
मयापि नाम्नां सर्वेषां फलं वक्तुं न शक्यते ॥ १५॥
ekaikameva tanmadhye nāma sarvārthasādhakam .
mayāpi nāmnāṁ sarveṣāṁ phalaṁ vaktuṁ na śakyate .. 15..
तिलाक्षतैर्बिल्वपत्रैः कमलैः कोमलैर्नवैः ।
पूजयिष्यति मां भक्त्या यस्त्वेतन्नामसंख्यया ॥ १६॥
tilākṣatairbilvapatraiḥ kamalaiḥ komalairnavaiḥ .
pūjayiṣyati māṁ bhaktyā yastvetannāmasaṁkhyayā .. 16..
स पापेभ्यः संसृतेश्च मुच्यते नात्र संशयः ।
ततो ममान्तिकं याति पुनरावृत्तिदुर्लभम् ॥ १७॥
sa pāpebhyaḥ saṁsṛteśca mucyate nātra saṁśayaḥ .
tato mamāntikaṁ yāti punarāvṛttidurlabham .. 17..
एकैकेनैव नाम्ना मां अर्चयित्वा दृढव्रताः ।
स्वेष्टं फलं प्राप्नुवन्ति सत्यमेवोच्यते मया ॥ १८॥
ekaikenaiva nāmnā māṁ arcayitvā dṛḍhavratāḥ .
sveṣṭaṁ phalaṁ prāpnuvanti satyamevocyate mayā .. 18..
एतन्नामावलीं यस्तु पठन्मां प्रणमेत्सदा ।
स याति मम सायुज्यं स्वेष्टं बन्धुसमन्वितः ॥ १९॥
etannāmāvalīṁ yastu paṭhanmāṁ praṇametsadā .
sa yāti mama sāyujyaṁ sveṣṭaṁ bandhusamanvitaḥ .. 19..
स्पृष्ट्वा मल्लिंगममलं एतन्नामानि यः पठेत् ।
स पातकेभ्यः सर्वेभ्यः सत्यमेव प्रमुच्यते ॥ २०॥
spṛṣṭvā malliṁgamamalaṁ etannāmāni yaḥ paṭhet .
sa pātakebhyaḥ sarvebhyaḥ satyameva pramucyate .. 20..
यस्त्वेतन्नामभिः सम्यक् त्रिकालं वत्सरावधि ।
मामर्चयति निर्दम्भः स देवेन्द्रो भविष्यति ॥ २१॥
yastvetannāmabhiḥ samyak trikālaṁ vatsarāvadhi .
māmarcayati nirdambhaḥ sa devendro bhaviṣyati .. 21..
एतन्नामानुसन्धाननिरतः सर्वदाऽमुना ।
मम प्रियकरस्तस्मान्निवसाम्यत्र सादरम् ॥ २२॥
etannāmānusandhānanirataḥ sarvadā'munā .
mama priyakarastasmānnivasāmyatra sādaram .. 22..
तत्पूजया पूजितोऽहं स एवाहं मतो मम ।
तस्मात्प्रियतरं स्थानमन्यन्नैव हि दृश्यते ॥ २३॥
tatpūjayā pūjito'haṁ sa evāhaṁ mato mama .
tasmātpriyataraṁ sthānamanyannaiva hi dṛśyate .. 23..
हिरण्यबाहुरित्यादिनाम्नां शम्भुरहं ऋषिः ।
देवताप्यहमेवात्र शक्तिर्गौरी मम प्रिया ॥ २४॥
hiraṇyabāhurityādināmnāṁ śambhurahaṁ ṛṣiḥ .
devatāpyahamevātra śaktirgaurī mama priyā .. 24..
महेश एव संसेव्यः सर्वैरिति हि कीलकम् ।
धर्माद्यर्थाः फलं ज्ञेयं फलदायी सदाशिवः ॥ २५॥ ॐ ॥
maheśa eva saṁsevyaḥ sarvairiti hi kīlakam .
dharmādyarthāḥ phalaṁ jñeyaṁ phaladāyī sadāśivaḥ .. 25.. oṁ ..
सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् ।
नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम् ॥
sauramaṇḍalamadhyasthaṁ sāmbaṁ saṁsārabheṣajam .
nīlagrīvaṁ virūpākṣaṁ namāmi śivamavyayam ..
Ньяса и дхьяна
॥ न्यासः ॥
ॐ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य शम्भुरृषिः ।
अनुष्टुप् छन्दः । परमात्मा श्रीसदाशिवो देवता ।
महेश्वर इति बीजम् । गौरी शक्तिः ।
महेश एव संसेव्यः सर्वैरिति कीलकम् ।
श्रीसाम्बसदाशिव प्रीत्यर्थे मुख्यसहस्रनामजपे विनियोगः ॥
.. nyāsaḥ ..
oṁ asya śrīśivasahasranāmastotramahāmantrasya śambhurṛṣiḥ .
anuṣṭup chandaḥ . paramātmā śrīsadāśivo devatā .
maheśvara iti bījam . gaurī śaktiḥ .
maheśa eva saṁsevyaḥ sarvairiti kīlakam .
śrīsāmbasadāśiva prītyarthe mukhyasahasranāmajape viniyogaḥ ..
॥ ध्यानम् ॥
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घण्टां वरडमरुयुतं चांकुशं वामभागे नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
.. dhyānam ..
śāntaṁ padmāsanasthaṁ śaśidharamakuṭaṁ pañcavaktraṁ trinetraṁ śūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ dakṣabhāge vahantam .
nāgaṁ pāśaṁ ca ghaṇṭāṁ varaḍamaruyutaṁ cāṁkuśaṁ vāmabhāge nānālaṁkārayuktaṁ sphaṭikamaṇinibhaṁ pārvatīśaṁ namāmi ..
Стотра и Стотра-вали
ॐ नमो भगवते रुद्राय । ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः । हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः ॥ १॥ oṁ namo bhagavate rudrāya . | |||
1 | हिरण्यबाहु | hiraṇyabāhu | Златорукий |
2 | सेनानी | senānī | Главнокомандующий армией |
3 | दिक्पति | dikpati | Повелитель направлений |
4 | तरुराजन् | tarurājan | Царь деревьев |
5 | हर | hara | Разрушитель |
6 | हरिकेश | harikeśa | Рыжеволосый |
7 | पशुपति | paśupati | Властелин животных, ограниченных живых существ |
8 | महात् | mahāt | Огромный |
9 | सस्पिञ्जर | saspiñjara | Огненно-рыжий, Золотистый |
10 | मृड | mṛḍa | Радующий |
विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः । सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ २॥ vivyādhī babhluśaḥ śreṣṭhaḥ paramātmā sanātanaḥ . | |||
11 | विव्याधी | vivyādhī | Пронизывающий |
12 | बभ्लुश | babhluśa | Восседающий на быке (Коричневый) |
13 | श्रेष्ठ | śreṣṭha | Наилучший |
14 | परमात्मन् सनातन | paramātman sanātana | Извечная Сверхдуша (Параматман) |
15 | सर्वान्नराजन् | sarvānnarājan | Повелитель всей пищи |
16 | जगत्कर्तृ | jagatkartṛ | Создатель Вселенной |
17 | पुष्टेश | puṣṭeśa | Повелитель благ |
18 | नन्दिकेश्वर | nandikeśvara | Господин Нанди |
आततावी महारुद्रः संसारास्त्रः सुरेश्वरः । उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः ॥ ३॥ ātatāvī mahārudraḥ saṁsārāstraḥ sureśvaraḥ . | |||
19 | आतताविन् | ātatāvin | Обладатель натянутого лука |
20 | महारुद्र | mahārudra | Великий Рудра, Громко ревущий |
21 | संसारास्त्र | saṁsārāstra | Оружие сансары |
22 | सुरेश्वर | sureśvara | Повелитель Девов |
23 | उपवीतिन् | upavītin | Носящий священный шнур |
24 | अहन्त्यात्मन् | ahantyātman | Неуничтожимая сущность, Атман |
25 | क्षेत्रेश | kṣetreśa | Повелитель поля |
26 | वननायक | vananāyaka | Лесной проводник, Повелитель леса |
रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः । वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः ॥ ४॥ rohitaḥ sthapatiḥ sūto vāṇijo mantrirunnataḥ . | |||
उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः । ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ ५॥ uccairghoṣo ghorarūpaḥ pattīśaḥ pāśamocakaḥ . | |||
सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः । आव्याधिनीशः ककुभो निषंगी स्तेनरक्षकः ॥ ६॥ sahamānaḥ svarṇaretāḥ nivyādhirnirupaplavaḥ . | |||
मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः । अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥ ७॥ mantrātmā taskarādhyakṣo vañcakaḥ parivañcakaḥ . | |||
प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः । भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ ८॥ prakṛnteśo giricaraḥ kuluñceśo guheṣṭadaḥ . | |||
व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् । शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ ९॥ vyuptakeśo giriśayaḥ sahasrākṣaḥ sahasrapāt . | |||
वामनो व्यापकः शूली वर्षीयानजडोऽनणुः । ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ १०॥ vāmano vyāpakaḥ śūlī varṣīyānajaḍo'naṇuḥ . | |||
आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः । द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ ११॥ ācārastārakastāro'vasvanyo'nantavigrahaḥ . | |||
पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः । अपगल्भो मध्यमोर्म्यो जघन्यो बुध्नियः प्रभुः ॥ १२॥ pūrvajo'parajo jyeṣṭhaḥ kaniṣṭho viśvalocanaḥ . | |||
प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः । खल्योर्वर्योऽभयः क्षेम्यः श्लोक्यः पथ्यो नभोऽग्रणीः ॥ १३॥ pratisaryo'nantarūpaḥ sobhyo yāmyo surāśrayaḥ . | |||
वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः । आशुषेणो महासेनो महावीरो महारथः ॥ १४॥ vanyo'vasānyaḥ pūtātmā śravaḥ kakṣyaḥ pratiśravaḥ . | |||
शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः । श्रुतसेनः श्रुतः साक्षी कवची वशकृद्वशी ॥ १५॥ śūro'tighātako varmī varūthī bilmirudyataḥ . | |||
आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः । धृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः ॥ १६॥ āhananyo'nanyanātho dundubhyo'riṣṭanāśakaḥ . | |||
तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः । सुधन्वा सुप्रसन्नात्मा विश्ववक्त्रः सदागतिः ॥ १७॥ tīkṣṇeṣupāṇiḥ prahitaḥ svāyudhaḥ śastravittamaḥ . | |||
स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः । सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः ॥ १८॥ srutyaḥ pathyo viśvabāhuḥ kāṭyo nīpyo śucismitaḥ . | |||
सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः । मेघ्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः ॥ १९॥ sarvo varṣyo varṣarūpaḥ kumāraḥ kuśalo'malaḥ . | |||
दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः । ईध्रियः क्रोधशमनो जातुकर्णः पुरुष्टुतः ॥ २०॥ durāsado durārādhyo nirdvandvo duḥsaharṣabhaḥ . | |||
आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः । वास्तव्यो वास्तुपो रेष्म्यो विश्वमूर्धा वसुप्रदः ॥ २१॥ ātapyo vāyurajaro vātyaḥ kātyāyanīpriyaḥ . | |||
सोमस्ताम्रोऽरुणः शंगः रुद्रः सुखकरः सुकृत् । उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः ॥ २२॥ somastāmro'ruṇaḥ śaṁgaḥ rudraḥ sukhakaraḥ sukṛt . | |||
अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः । शम्भुर्मयोभवो नित्यः शंकरः कीर्तिसागरः ॥ २३॥ agrevadho hanīyātmā hantā dūrevadho vadhaḥ . | |||
मयस्करः शिवतरः खण्डपर्शुरजः शुचिः । तीर्थ्यः कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः ॥ २४॥ mayaskaraḥ śivataraḥ khaṇḍaparśurajaḥ śuciḥ . | |||
शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः । उच्च उत्तरणस्तार्यस्तार्यज्ञस्तार्यहृद्गतिः ॥ २५॥ śuddhaḥ prataraṇo mukhyaḥ śuddhapāṇiralolupaḥ . | |||
आतार्यः सारभूतात्मा सारग्राही दुरत्ययः । आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसंगरः ॥ २६॥ ātāryaḥ sārabhūtātmā sāragrāhī duratyayaḥ . | |||
शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः । इरिण्यो ग्रामणीः पुण्यः शरण्यः शुद्धशासनः ॥ २७॥ śaṣpyaḥ phenyaḥ pravāhyoḍhā sikatyaḥ saikatāśrayaḥ . | |||
वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः । यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः ॥ २८॥ vareṇyo yajñapuruṣo yajñeśo yajñanāyakaḥ . | |||
यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः । प्रपथ्यः किंशिलो गेह्यो गृह्यस्तल्प्यो धनाकरः ॥ २९॥ yajñakarmaphalādhyakṣo yajñamūrtiranāturaḥ . | |||
पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः । ह्रदय्यो हृद्यकृत् हृद्यो गह्वरेष्ठः प्रभाकरः ॥ ३०॥ pulastyaḥ kṣayaṇo goṣṭhyo govindo gītasatkriyaḥ . | |||
निवेष्प्यो नियतोऽयन्ता पांसव्यः संप्रतापनः । शुष्क्यो हरित्योऽपूतात्मा रजस्यः सात्विकप्रियः ॥ ३१॥ niveṣpyo niyato'yantā pāṁsavyaḥ saṁpratāpanaḥ . | |||
लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः । भूतो भूतपतिर्भूपो भूधरो भूधरायुधः ॥ ३२॥ lopyolapyaḥ parṇaśadyaḥ parṇyaḥ pūrṇaḥ purātanaḥ . | |||
भूतसंघो भूतमूर्तिर्भूतहा भूतिभूषणः । मदनो मादको माद्यो मदहा मधुरप्रियः ॥ ३३॥ bhūtasaṁgho bhūtamūrtirbhūtahā bhūtibhūṣaṇaḥ . | |||
मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः । निरञ्जनो निराधारो निर्लुप्तो निरुपाधिकः ॥ ३४॥ madhurmadhukaraḥ krūro madhuro madanāntakaḥ . | |||
निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः । सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः ॥ ३५॥ niṣprapañco nirākāro nirīho nirupadravaḥ . | |||
सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः । समस्तजगदाधारः समस्तगुणसागरः ॥ ३६॥ sattvaniṣṭhaḥ sattvamūrtiḥ sattveśaḥ sattvavittamaḥ . | |||
समस्तदुःखविध्वंसी समस्तानन्दकारणः । रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः ॥ ३७॥ samastaduḥkhavidhvaṁsī samastānandakāraṇaḥ . | |||
रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः । विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः ॥ ३८॥ rudrākṣavakṣā rudrākṣarūpo rudrākṣapakṣakaḥ . | |||
विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः । भुजगेन्द्रलसत्कण्ठो भुजंगाभरणप्रियः ॥ ३९॥ vighneśvaro vighnakartā gururdevaśikhāmaṇiḥ . | |||
भुजंगविलसत्कर्णो भुजंगवलयावृतः । मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः ॥ ४०॥ bhujaṁgavilasatkarṇo bhujaṁgavalayāvṛtaḥ . | |||
मुनिहृत्पुण्डरीकस्थो मुनिसंघैकजीवनः । मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः ॥ ४१॥ munihṛtpuṇḍarīkastho munisaṁghaikajīvanaḥ . | |||
मृगेन्द्रचर्मवसनो नरसिंहनिपातनः । मृत्युञ्जयो मृत्युमृत्युरपमृत्युविनाशकः ॥ ४२॥ mṛgendracarmavasano narasiṁhanipātanaḥ . | |||
दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः । ऊर्ध्वो हिरण्यः परमो निधनेशो धनाधिपः ॥ ४३॥ duṣṭamṛtyuraduṣṭeṣṭaḥ mṛtyuhā mṛtyupūjitaḥ . | |||
यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः । व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी ॥ ४४॥ yajurmūrtiḥ sāmamūrtiḥ ṛṅmūrtirmūrtivarjitaḥ . | |||
लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः । ग्रहग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः ॥ ४५॥ liṅgamūrtiraliṅgātmā liṅgāliṅgātmavigrahaḥ . | |||
ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः । कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः ॥ ४६॥ grahakṛd grahabhid grāhī graho grahavilakṣaṇaḥ . | |||
कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः । परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः ॥ ४७॥ kalpo kalpākṛtiḥ kalpanāśakaḥ kalpakalpakaḥ . | |||
वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः । वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः ॥ ४८॥ vedyo vaidyo vedavedyo vedavedāntasaṁstutaḥ . | |||
कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः । भक्तकल्याणदो भक्तकामधेनुः सुराधिपः ॥ ४९॥ kalyāṇarūpaḥ kalyāṇaḥ kalyāṇaguṇasaṁśrayaḥ . | |||
पावनः पावको वामो महाकालो मदापहः । घोरपातकदावाग्निर्दवभस्मकणप्रियः ॥ ५०॥ pāvanaḥ pāvako vāmo mahākālo madāpahaḥ . | |||
अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः । जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः ॥ ५१॥ anantasomasūryāgnimaṇḍalapratimaprabhaḥ . | |||
जगदानन्ददो जन्मजरामरणवर्जितः । खट्वाङ्गी नीतिमान् सत्यो देवतात्माऽऽत्मसम्भवः ॥ ५२॥ jagadānandado janmajarāmaraṇavarjitaḥ . | |||
कपालमालाभरणः कपाली विष्णुवल्लभः । कमलासनकालाग्निः कमलासनपूजितः ॥ ५३॥ kapālamālābharaṇaḥ kapālī viṣṇuvallabhaḥ . | |||
कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः । नाट्यकर्ता नटपरो महानाट्यविशारदः ॥ ५४॥ kālādhīśastrikālajño duṣṭavigrahavārakaḥ . | |||
विराट्रूपधरो धीरो वीरो वृषभवाहनः । वृषांको वृषभाधीशो वृषात्मा वृषभध्वजः ॥ ५५॥ virāṭrūpadharo dhīro vīro vṛṣabhavāhanaḥ . | |||
महोन्नतो महाकायो महावक्षा महाभुजः । महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः ॥ ५६॥ mahonnato mahākāyo mahāvakṣā mahābhujaḥ . | |||
महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः । सुन्दरभ्रूः सुनयनः सुललाटः सुकन्दरः ॥ ५७॥ mahāhanurmahādaṁṣṭro mahadoṣṭho mahodaraḥ . | |||
सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः । धर्मवान् धर्मनिपुणो धर्मो धर्मप्रवर्तकः ॥ ५८॥ satyavākyo dharmavettā satyajñaḥ satyavittamaḥ . | |||
कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः । कृत्यवित् कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः ॥ ५९॥ kṛtajñaḥ kṛtakṛtyātmā kṛtakṛtyaḥ kṛtāgamaḥ . | |||
व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती । व्रतप्रियो व्रताधारो व्रताकारो व्रतेश्वरः ॥ ६०॥ vratakṛd vratavicchreṣṭho vratavidvān mahāvratī . | |||
अतिरागी वीतरागी रागहेतुर्विरागवित् । रागघ्नो रागशमनो रागदो रागिरागवित् ॥ ६१॥ atirāgī vītarāgī rāgaheturvirāgavit . | |||
विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः । विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ॥ ६२॥ vidvān vidvattamo vidvajjanamānasasaṁśrayaḥ . | |||
नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः । विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ ६३॥ nītikṛnnītivinnītipradātā nītivitpriyaḥ . | |||
क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक् । सक्रोधः क्रोधहा क्रोधिजनहा क्रोधकारणः ॥ ६४॥ krodhavit krodhakṛt krodhijanakṛt krodharūpadhṛk . | |||
गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः । गुणाधारो गुणाकारो गुणकृद् गुणनाशकः ॥ ६५॥ guṇavān guṇavicchreṣṭho nirguṇo guṇavitpriyaḥ . | |||
वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः । वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः ॥ ६६॥ vīryavān vīryavicchreṣṭho vīryavidvīryasaṁśrayaḥ . | |||
कालवित्कालकृत्कालो बलकृद् बलविद्बली । मनोन्मनो मनोरूपो बलप्रमथनो बलः ॥ ६७॥ kālavitkālakṛtkālo balakṛd balavidbalī . | |||
विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः । विश्वकारो महाविश्वो विश्वविश्वो विशारदः ॥ ६८॥ viśvapradātā viśveśo viśvamātraikasaṁśrayaḥ . | |||
другой вариант стиха: विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः । विद्याकारो महाविद्यो विद्याविद्यो विशारदः ॥ ६८॥ vidyāpradātā vidyeśo vidyāmātraikasaṁśrayaḥ . | |||
वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः । ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः ॥ ६९॥ vasantakṛdvasantātmā vasanteśo vasantadaḥ . | |||
प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः । प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः ॥ ७०॥ prāvṛṭkṛt prāvṛḍākāraḥ prāvṛṭkālapravartakaḥ . | |||
शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः । शरन्नाथः शरत्कालनाशकः शरदाश्रयः ॥ ७१॥ śaradātmā śaraddhetuḥ śaratkālapravartakaḥ . | |||
हिमस्वरूपो हिमदो हिमहा हिमनायकः । शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः ॥ ७२॥ himasvarūpo himado himahā himanāyakaḥ . | |||
प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः । आग्नेयात्मा निरृतीशो वायव्यात्मेशनायकः ॥ ७३॥ prācyātmā dakṣiṇākāraḥ pratīcyātmottarākṛtiḥ . | |||
ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः । सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः ॥ ७४॥ ūrdhvādhaḥsudigākāro nānādeśaikanāyakaḥ . | |||
सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः । जीवाध्यक्षो जीववन्द्यो जीवविज्जीवरक्षकः ॥ ७५॥ sarvapakṣimṛgādhāro mṛgādyutpattikāraṇaḥ . | |||
जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः । ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पतिः ॥ ७६॥ jīvakṛjjīvahā jīvajīvano jīvasaṁśrayaḥ . | |||
वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः । कुमारगुरुरीशानो गणाध्यक्षो गणाधिपः ॥ ७७॥ vajrātmā vajrahastātmā vajreśo vajrabhūṣitaḥ . | |||
पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः । अपायरहितः शान्तो दान्तो दमयिता दमः ॥ ७८॥ pinākapāṇiḥ sūryātmā somasūryāgnilocanaḥ . | |||
ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः । कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः ॥ ७९॥ ṛṣiḥ purāṇapuruṣaḥ puruṣeśaḥ purandaraḥ . | |||
प्रलयानलकृद् दिव्यः प्रलयानलनाशकः । त्रियम्बकोऽरिषड्वर्गनाशको धनदप्रियः ॥ ८०॥ pralayānalakṛd divyaḥ pralayānalanāśakaḥ . | |||
अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः । सदम्भो दम्भरहितो दम्भदो दम्भनाशकः ॥ ८१॥ akṣobhyaḥ kṣobharahitaḥ kṣobhadaḥ kṣobhanāśakaḥ . | |||
कुन्देन्दुशंखधवलो भस्मोद्धूलितविग्रहः । भस्मधारणहृष्टात्मा तुष्टिः पुष्ट्यरिसूदनः ॥ ८२॥ kundenduśaṁkhadhavalo bhasmoddhūlitavigrahaḥ . | |||
स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः । त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः ॥ ८३॥ sthāṇurdigambaro bhargo bhaganetrabhidudyamaḥ . | |||
सामप्रियः सामवेत्ता सामगः सामगप्रियः । धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ॥ ८४॥ sāmapriyaḥ sāmavettā sāmagaḥ sāmagapriyaḥ . | |||
लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः । तुम्बवीणः कम्बुकण्ठः शम्बरारिनिकृन्तनः ॥ ८५॥ lāvaṇyarāśiḥ sarvajñaḥ subuddhirbuddhimānvaraḥ . | |||
शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः । जयप्रदो जयाध्यक्षो जयात्मा जयकारणः ॥ ८६॥ śārdūlacarmavasanaḥ pūrṇānando jagatpriyaḥ . | |||
जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः । जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः ॥ ८७॥ jaṅgamājaṅgamākāro jagadutpattikāraṇaḥ . | |||
पूषदन्तभिदुत्कृष्टः पञ्चयज्ञः प्रभञ्जकः । अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान् ॥ ८८॥ pūṣadantabhidutkṛṣṭaḥ pañcayajñaḥ prabhañjakaḥ . | |||
कैलासशिखरावासः कैलासशिखरप्रियः । भक्तकैलासदः सूक्ष्मो मर्मज्ञः सर्वशिक्षकः ॥ ८९॥ kailāsaśikharāvāsaḥ kailāsaśikharapriyaḥ . | |||
सोमः सोमकलाकारो महातेजा महातपाः । हिरण्यश्मश्रुरानन्दः स्वर्णकेशः सुवर्णदृक् ॥ ९०॥ somaḥ somakalākāro mahātejā mahātapāḥ . | |||
ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः । स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः ॥ ९१॥ brahmā viśvasṛgurvīśo mocako bandhavarjitaḥ . | |||
पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः । पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः ॥ ९२॥ puṣkarākṣaḥ puṇyakīrtiḥ puṇyaśravaṇakīrtanaḥ . | |||
सारभूतः स्वरमयो रसभूतो रसाश्रयः । ओंकारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः ॥ ९३॥ sārabhūtaḥ svaramayo rasabhūto rasāśrayaḥ . | |||
निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः । मन्दारमूलनिलयो मन्दारकुसुमावृतः ॥ ९४॥ nikaṭastho'tidūrastho vaśī brahmāṇḍanāyakaḥ . | |||
वृन्दारकप्रियतमो वृन्दारकवरार्चितः । श्रीमाननन्तकल्याणपरिपूर्णो महोदयः ॥ ९५॥ vṛndārakapriyatamo vṛndārakavarārcitaḥ . | |||
महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः । सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ॥ ९६॥ mahotsāho viśvabhoktā viśvāśāparipūrakaḥ . | |||
लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः । ब्रह्मचारी दृढाचारी देवसिंहो धनप्रियः ॥ ९७॥ lābhātmā lābhado vaktā dyutimānanasūyakaḥ . | |||
वेदपो देवदेवेशो देवदेवोत्तमोत्तमः । बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः ॥ ९८॥ vedapo devadeveśo devadevottamottamaḥ . | |||
बीजाधारो बीजरूपो निर्बीजो बीजनाशकः । परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः ॥ ९९॥ bījādhāro bījarūpo nirbījo bījanāśakaḥ . | |||
पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः । युगावहो युगाधीशो युगकृद्युगनाशकः ॥ १००॥ piṅgalākṣaḥ suraguruḥ guruḥ suragurupriyaḥ . | |||
कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः । धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः ॥ १०१॥ karpūragauro gaurīśo gaurīguruguhāśrayaḥ . | |||
मनोजवो जीवहेतुरन्धकासुरसूदनः । लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः ॥ १०२॥ manojavo jīvaheturandhakāsurasūdanaḥ . | |||
अव्यक्तलक्षणो योगी योगीशो योगपुंगवः । श्रितावासो जनावासः सुरवासः सुमण्डलः ॥ १०३॥ avyaktalakṣaṇo yogī yogīśo yogapuṁgavaḥ . | |||
भववैद्यो योगिवैद्यो योगिसिंहहृदासनः । उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादनः ॥ १०४॥ bhavavaidyo yogivaidyo yogisiṁhahṛdāsanaḥ . | |||
आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः । भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः ॥ १०५॥ āśāsyaḥ kamanīyātmā śubhaḥ sundaravigrahaḥ . | |||
अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः । कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ १०६॥ aprameyaguṇādhāro vedakṛdvedavigrahaḥ . | |||
अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः । भूशयोऽन्नमयोऽभोक्ता महेष्वासो महीतनुः ॥ १०७॥ apradhṛṣyaḥ śāntabhadraḥ kīrtistambho manomayaḥ . | |||
विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः । सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः ॥ १०८॥ vijñānamaya ānandamayaḥ prāṇamayo'nnadaḥ . | |||
अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः । दयासुधार्द्रनयनो निराशीरपरिग्रहः ॥ १०९॥ anirviṇṇo guṇagrāhī sarvadharmaphalapradaḥ . | |||
परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः । मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः ॥ ११०॥ parārthavṛttirmadhuro madhurapriyadarśanaḥ . | |||
सुखप्रदः सुखाकारः सुखदुःखविवर्जितः । विशृङ्खलो जगत्कर्ता जितसर्वः पितामहः ॥ १११॥ sukhapradaḥ sukhākāraḥ sukhaduḥkhavivarjitaḥ . | |||
अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः । अतीन्द्रियो महामायो मायावी विगतज्वरः ॥ ११२॥ anapāyo'kṣayo muṇḍī surūpo rūpavarjitaḥ . | |||
अमृतः शाश्वतः शान्तो मृत्युहा मूकनाशनः । महाप्रेतासनासीनः पिशाचानुचरावृतः ॥ ११३॥ amṛtaḥ śāśvataḥ śānto mṛtyuhā mūkanāśanaḥ . | |||
गौरीविलाससदनो नानागानविशारदः । विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः ॥ ११४॥ gaurīvilāsasadano nānāgānaviśāradaḥ . | |||
विष्णुब्रह्मादिवन्द्यांघ्रिः सुरासुरनमस्कृतः । किरीटलेढिफालेन्दुर्मणिकंकणभूषितः ॥ ११५॥ viṣṇubrahmādivandyāṁghriḥ surāsuranamaskṛtaḥ . | |||
रत्नांगदांगो रत्नेशो रत्नरञ्जितपादुकः । नवरत्नगणोपेतकिरीटी रत्नकञ्चुकः ॥ ११६॥ ratnāṁgadāṁgo ratneśo ratnarañjitapādukaḥ . | |||
नानाविधानेकरत्नलसत्कुण्डलमण्डितः । दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः ॥ ११७॥ nānāvidhānekaratnalasatkuṇḍalamaṇḍitaḥ . | |||
गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः । रत्नांगुलीयविलसत्करशाखानखप्रभः ॥ ११८॥ galavyālamaṇirnāsāpuṭabhrājitamauktikaḥ . | |||
रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः । वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियः ॥ ११९॥ ratnabhrājaddhemasūtralasatkaṭitaṭaḥ paṭuḥ . | |||
लीलावलम्बितवपुर्भक्तमानसमन्दिरः । मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १२०॥ līlāvalambitavapurbhaktamānasamandiraḥ . | |||
कस्तूरीविलसत्फालो दिव्यवेषविराजितः । दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ १२१॥ kastūrīvilasatphālo divyaveṣavirājitaḥ . | |||
देवासुरगुरुस्तव्यो देवासुरनमस्कृतः । हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ॥ १२२॥ devāsuragurustavyo devāsuranamaskṛtaḥ . | |||
सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः । सर्वेष्टदाता सर्वेष्टः स्फुरन्मंगलविग्रहः ॥ १२३॥ sarvāśāsyaguṇo'meyaḥ sarvalokeṣṭabhūṣaṇaḥ . | |||
अविद्यालेशरहितो नानाविद्यैकसंश्रयः । मूर्तिभवः कृपापूरो भक्तेष्टफलपूरकः ॥ १२४॥ avidyāleśarahito nānāvidyaikasaṁśrayaḥ . | |||
सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः । हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः ॥ १२५॥ sampūrṇakāmaḥ saubhāgyanidhiḥ saubhāgyadāyakaḥ . | |||
शरणागतदीनार्तपरित्राणपरायणः । जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः ॥ १२६॥ śaraṇāgatadīnārtaparitrāṇaparāyaṇaḥ . | |||
भोक्ता भोजयिता जेता जितारिर्जितमानसः । अक्षरः कारणं क्रुद्धसमरः शारदप्लवः ॥ १२७॥ bhoktā bhojayitā jetā jitārirjitamānasaḥ . | |||
आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः । पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः ॥ १२८॥ ājñāpakeccho gambhīraḥ kavirduḥsvapnanāśakaḥ . | |||
व्योमकेशो भीमवेषो गौरीपतिरनामयः । भवाब्धितरणोपायो भगवान् भक्तवत्सलः ॥ १२९॥ vyomakeśo bhīmaveṣo gaurīpatiranāmayaḥ . | |||
वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः । यन्ता यविष्ठः क्षोदिष्ठो स्थविष्ठो यमशासकः ॥ १३०॥ varo variṣṭho nediṣṭhaḥ priyaḥ priyadavaḥ sudhīḥ . | |||
हिरण्यगर्भो हेमांगो हेमरूपो हिरण्यदः । ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रविः ॥ १३१॥ hiraṇyagarbho hemāṁgo hemarūpo hiraṇyadaḥ . | |||
मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः । महाश्मशाननिलयो वेदाश्वो भूरथः स्थिरः ॥ १३२॥ mokṣārthijanasaṁsevyo mokṣado mokṣanāyakaḥ . | |||
मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः । सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः ॥ १३३॥ mṛgavyādho carmadhāmā pracchannaḥ sphaṭikaprabhaḥ . | |||
महेश्वरो महादेवः परब्रह्म सदाशिवः ॥ १३४॥ maheśvaro mahādevaḥ parabrahma sadāśivaḥ .. 134.. | |||
॥ श्री परब्रह्म सदाशिव ॐ नम इति ॥ .. śrī parabrahma sadāśiva oṁ nama iti .. |
Завершение
॥ उत्तर पीठिका ॥
एवमेतानि नामानि मुख्यानि मम षण्मुख ।
शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम् ॥ १॥
.. uttara pīṭhikā ..
evametāni nāmāni mukhyāni mama ṣaṇmukha .
śubhadāni vicitrāṇi gauryai proktāni sādaram .. 1..
विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः ।
शिवलिंगसमीपस्थो निस्संगो निर्जितासनः ॥ २॥
vibhūtibhūṣitavapuḥ śuddho rudrākṣabhūṣaṇaḥ .
śivaliṁgasamīpastho nissaṁgo nirjitāsanaḥ .. 2..
एकाग्रचित्तो नियतो वशी भूतहिते रतः ।
शिवलिंगार्चको नित्यं शिवैकशरणः सदा ॥ ३॥
ekāgracitto niyato vaśī bhūtahite rataḥ .
śivaliṁgārcako nityaṁ śivaikaśaraṇaḥ sadā .. 3..
मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम् ।
एवमुक्तगुणोपेतः स देवैः पूजितो भवेत् ॥ ४॥
mama nāmāni divyāni yo japedbhaktipūrvakam .
evamuktaguṇopetaḥ sa devaiḥ pūjito bhavet .. 4..
संसारपाशसंबद्धजनमोक्षैकसाधनम् ।
मन्नामस्मरणं नूनं तदेव सकलार्थदम् ॥ ५॥
saṁsārapāśasaṁbaddhajanamokṣaikasādhanam .
mannāmasmaraṇaṁ nūnaṁ tadeva sakalārthadam .. 5..
मन्नामैव परं जप्यमहमेवाक्षयार्थदः ।
अहमेव सदा सेव्यो ध्येयो मुक्त्यर्थमादरात् ॥ ६॥
mannāmaiva paraṁ japyamahamevākṣayārthadaḥ .
ahameva sadā sevyo dhyeyo muktyarthamādarāt .. 6..
विभूतिवज्रकवचैः मन्नामशरपाणिभिः ।
विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम् ॥ ७॥
vibhūtivajrakavacaiḥ mannāmaśarapāṇibhiḥ .
vijayaḥ sarvato labhyo na teṣāṁ dṛśyate bhayam .. 7..
न तेषां दृश्यते भयम् ॐ नम इति ।
na teṣāṁ dṛśyate bhayam oṁ nama iti .
श्रीसूत उवाच ।
इत्युदीरितमाकर्ण्य महादेवेन तद्वचः ।
सन्तुष्टः षण्मुखः शम्भुं तुष्टाव गिरिजासुतः ॥ ८॥
śrīsūta uvāca .
ityudīritamākarṇya mahādevena tadvacaḥ .
santuṣṭaḥ ṣaṇmukhaḥ śambhuṁ tuṣṭāva girijāsutaḥ .. 8..
श्रीस्कन्द उवाच ।
नमस्ते नमस्ते महादेव शम्भो नमस्ते नमस्ते प्रपन्नैकबन्धो ।
नमस्ते नमस्ते दयासारसिन्धो नमस्ते नमस्ते नमस्ते महेश ॥ ९॥
śrīskanda uvāca .
namaste namaste mahādeva śambho namaste namaste prapannaikabandho .
namaste namaste dayāsārasindho namaste namaste namaste maheśa .. 9..
नमस्ते नमस्ते महामृत्युहारिन् नमस्ते नमस्ते महादुःखहारिन् ।
नमस्ते नमस्ते महापापहारिन् नमस्ते नमस्ते नमस्ते महेश ॥ १०॥
namaste namaste mahāmṛtyuhārin namaste namaste mahāduḥkhahārin .
namaste namaste mahāpāpahārin namaste namaste namaste maheśa .. 10..
नमस्ते नमस्ते सदा चन्द्रमौले नमस्ते नमस्ते सदा शूलपाणे ।
नमस्ते नमस्ते सदोमैकजाने नमस्ते नमस्ते नमस्ते महेश ॥ ११॥
namaste namaste sadā candramaule namaste namaste sadā śūlapāṇe .
namaste namaste sadomaikajāne namaste namaste namaste maheśa .. 11..
वेदान्तवेद्याय महादयाय कैलासवासाय शिवाधवाय ।
शिवस्वरूपाय सदाशिवाय शिवासमेताय नमःशिवाय ॥ १२॥
vedāntavedyāya mahādayāya kailāsavāsāya śivādhavāya .
śivasvarūpāya sadāśivāya śivāsametāya namaḥśivāya .. 12..
ॐ नमःशिवाय इति
oṁ namaḥśivāya iti
श्रीसूत उवाच।
इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् ।
पुनःप्रणम्याथ ततः स्कन्दस्तस्थौ कृताञ्जलिः ॥ १३॥
śrīsūta uvāca.
iti stutvā mahādevaṁ sarvavyāpinamīśvaram .
punaḥpraṇamyātha tataḥ skandastasthau kṛtāñjaliḥ .. 13..
भवन्तोऽपि मुनिश्रेष्ठाः साम्बध्यानपरायणाः ।
शिवनामजपं कृत्वा तिष्ठन्तु सुखिनः सदा ॥ १४॥
bhavanto'pi muniśreṣṭhāḥ sāmbadhyānaparāyaṇāḥ .
śivanāmajapaṁ kṛtvā tiṣṭhantu sukhinaḥ sadā .. 14..
शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः ।
शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः ॥ १५॥
śiva eva sadā dhyeyaḥ sarvadevottamaḥ prabhuḥ .
śiva eva sadā pūjyo muktikāmairna saṁśayaḥ .. 15..
महेशान्नाधिको देवः स एव सुरसत्तमः ।
स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः ॥ १६॥
maheśānnādhiko devaḥ sa eva surasattamaḥ .
sa eva sarvavedāntavedyo nātrāsti saṁśayaḥ .. 16..
जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा ।
तस्य श्रद्धा महादेवे भक्तिश्च भवति ध्रुवम् ॥ १७॥
janmāntarasahasreṣu yadi taptaṁ tapastadā .
tasya śraddhā mahādeve bhaktiśca bhavati dhruvam .. 17..
सुभगा जननी तस्य तस्यैव कुलमुन्नतम् ।
तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे ॥ १८॥
subhagā jananī tasya tasyaiva kulamunnatam .
tasyaiva janma saphalaṁ yasya bhaktiḥ sadāśive .. 18..
ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं शैलाधीशसुतासमेतममलं संपूजयन्त्यादरात् ।
ye śambhuṁ surasattamaṁ suragaṇairārādhyamīśaṁ śivaṁ
śailādhīśasutāsametamamalaṁ saṁpūjayantyādarāt .
ते धन्याः शिवपादपूजनपराः ह्यन्यो न धन्यो जनः सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा ॥ १९॥
te dhanyāḥ śivapādapūjanaparāḥ hyanyo na dhanyo janaḥ satyaṁ satyamihocyate munivarāḥ satyaṁ punaḥ sarvathā .. 19..
सत्यं पुनः सर्वथा ॐ नम इति ।
नमः शिवाय साम्बाय सगणाय ससूनवे ।
प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ २०॥
satyaṁ punaḥ sarvathā oṁ nama iti .
namaḥ śivāya sāmbāya sagaṇāya sasūnave .
pradhānapuruṣeśāya sargasthityantahetave .. 20..
नमस्ते गिरिजानाथ भक्तानामिष्टदायक ।
देहि भक्तिं त्वयीशान सर्वाभीष्टं च देहि मे ॥ २१॥
namaste girijānātha bhaktānāmiṣṭadāyaka .
dehi bhaktiṁ tvayīśāna sarvābhīṣṭaṁ ca dehi me .. 21..
साम्ब शम्भो महादेव दयासागर शंकर ।
मच्चित्तभ्रमरो नित्यं तवास्तु पदपंकजे ॥ २२॥
sāmba śambho mahādeva dayāsāgara śaṁkara .
maccittabhramaro nityaṁ tavāstu padapaṁkaje .. 22..
सर्वार्थ शर्व सर्वेश सर्वोत्तम महेश्वर ।
तव नामामृतं दिव्यं जिह्वाग्रे मम तिष्ठतु ॥ २३॥
sarvārtha śarva sarveśa sarvottama maheśvara .
tava nāmāmṛtaṁ divyaṁ jihvāgre mama tiṣṭhatu .. 23..
यदक्षरं पदं भ्रष्टं मात्राहीनं च यद् भवेत् ।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥ २४॥
yadakṣaraṁ padaṁ bhraṣṭaṁ mātrāhīnaṁ ca yad bhavet .
tatsarvaṁ kṣamyatāṁ deva prasīda parameśvara .. 24..
करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व जयजय करुणाब्धे श्रीमहादेव शम्भो ॥ २५॥
karacaraṇakṛtaṁ vākkāyajaṁ karmajaṁ vā śravaṇanayanajaṁ vā mānasaṁ vā'parādham .
vihitamavihitaṁ vā sarvametat kṣamasva jayajaya karuṇābdhe śrīmahādeva śambho .. 25..
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै सदाशिवायेति समर्पयामि ॥ २६॥
kāyena vācā manasendriyairvā buddhyātmanā vā prakṛteḥ svabhāvāt .
karomi yadyat sakalaṁ parasmai sadāśivāyeti samarpayāmi .. 26..
॥ ॐ तत्सत् इति श्रीमुख्यशिवसहस्रनामस्तोत्रं संपूर्णम् ॥
.. oṁ tatsat iti śrīmukhyaśivasahasranāmastotraṁ saṁpūrṇam ..