Шива-сахасранама-стотра VII
Шива-сахасранама-стотра[править | править код]
.. śiva sahasranāma stotram liṁgapurāṇāntargata ..
«Тысяча восемь имён Шивы из Линга-пураны» (версия 2: 1.98.27-159)
Перевод с санскрита: Elena B.
अथ लिङ्गपुराणान्तर्गतश्रीशिवसहस्रनामस्तोत्रमन्त्रैः अभिषेकः ।
ॐ ।
atha liṅgapurāṇāntargataśrīśivasahasranāmastotramantraiḥ abhiṣekaḥ .
oṁ .
Мангалам[править | править код]
ऋषय ऊचुः । कथं देवेन वै सूत देवदेवान्महेश्वरात् ।
सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना ॥ १॥
ṛṣaya ūcuḥ . kathaṁ devena vai sūta devadevānmaheśvarāt .
sudarśanākhyaṁ vai labdhaṁ vaktumarhasi viṣṇunā .. 1..
सूत उवाच । देवानामसुरेन्द्राणामभवच्च सुदारुणः ।
सर्वेषामेव भूतानां विनाशकरणो महान् ॥ २॥
sūta uvāca . devānāmasurendrāṇāmabhavacca sudāruṇaḥ .
sarveṣāmeva bhūtānāṁ vināśakaraṇo mahān .. 2..
ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः ।
प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः ॥ ३॥
te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ .
prabhidyamānāḥ kuntaiśca dudruvurbhayavihvalāḥ .. 3..
पराजितास्तदा देवा देवदेवेश्वरं हरिम् ।
प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः ॥ ४॥
parājitāstadā devā devadeveśvaraṁ harim .
praṇemustaṁ sureśānaṁ śokasaṁvignamānasāḥ .. 4..
तान् समीक्ष्याथ भगवान्देवदेवेश्वरो हरिः ।
प्रणिपत्य स्थितान्देवानिदं वचनमब्रवीत् ॥ ५॥
tān samīkṣyātha bhagavāndevadeveśvaro hariḥ .
praṇipatya sthitāndevānidaṁ vacanamabravīt .. 5..
वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः ।
समागताः ससंतापा वक्तुमर्हथ सुव्रताः ॥ ६॥
vatsāḥ kimiti vai devāścyutālaṅkāravikramāḥ .
samāgatāḥ sasaṁtāpā vaktumarhatha suvratāḥ .. 6..
तस्य तद्वचनं श्रुत्वा तथाभूताः सुरोत्तमाः ।
प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे ॥ ७॥
tasya tadvacanaṁ śrutvā tathābhūtāḥ surottamāḥ .
praṇamyāhuryathāvṛttaṁ devadevāya viṣṇave .. 7..
भगवन्देवदेवेश विष्णो जिष्णो जनार्दन ।
दानवैः पीडिताः सर्वे वयं शरणमागताः ॥ ८॥
bhagavandevadeveśa viṣṇo jiṣṇo janārdana .
dānavaiḥ pīḍitāḥ sarve vayaṁ śaraṇamāgatāḥ .. 8..
त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम ।
त्वमेव परमात्मा हि त्वं पिता जगतामपि ॥ ९॥
tvameva devadeveśa gatirnaḥ puruṣottama .
tvameva paramātmā hi tvaṁ pitā jagatāmapi .. 9..
त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन ।
हन्तुमर्हसि तस्मात्त्वं दानवान्दानवार्दन ॥ १०॥
tvameva bhartā hartā ca bhoktā dātā janārdana .
hantumarhasi tasmāttvaṁ dānavāndānavārdana .. 10..
दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः ।
कौबेरैश्चैव सौम्यैश्च नैरृत्यैर्वारुणैर्दृढैः ॥ ११॥
daityāśca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ .
kauberaiścaiva saumyaiśca nairṛtyairvāruṇairdṛḍhaiḥ .. 11..
वायव्यैश्च तथाग्नेयैरैशानैर्वार्षिकैः शुभैः ।
सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः ॥ १२॥
vāyavyaiśca tathāgneyairaiśānairvārṣikaiḥ śubhaiḥ .
saurai raudraistathā bhīmaiḥ kampanairjṛmbhaṇairdṛḍhaiḥ .. 12..
अवध्या वरलाभात्ते सर्वे वारिजलोचन ।
सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम् ॥ १३॥
avadhyā varalābhātte sarve vārijalocana .
sūryamaṇḍalasambhūtaṁ tvadīyaṁ cakramudyatam .. 13..
कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो ।
दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः ॥ १४॥
kuṇṭhitaṁ hi dadhīcena cyāvanena jagadguro .
daṇḍaṁ śārṅgaṁ tavāstraṁ ca labdhaṁ daityaiḥ prasādataḥ .. 14..
पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा ।
रथाङ्गं सुशितं घोरं तेन तान् हन्तुमर्हसि ॥ १५॥
purā jalandharaṁ hantuṁ nirmitaṁ tripurāriṇā .
rathāṅgaṁ suśitaṁ ghoraṁ tena tān hantumarhasi .. 15..
तस्मात्तेन निहन्तव्या नान्यैः शस्त्रशतैरपि ।
ततो निशम्य तेषां वै वचनं वारिजेक्षणः ॥ १६॥
वाचस्पतिमुखानाह स हरिश्चक्रभृत्स्वयम् ।
tasmāttena nihantavyā nānyaiḥ śastraśatairapi .
tato niśamya teṣāṁ vai vacanaṁ vārijekṣaṇaḥ .. 16..
vācaspatimukhānāha sa hariścakrabhṛtsvayam .
श्रीविष्णुरुवाच । भोभो देवा महादेवं सर्वैर्देवैः सनातनैः ॥ १७॥
सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम् ।
देवा जलंधरं हन्तुं निर्मितं हि पुरारिणा ॥ १८॥
śrīviṣṇuruvāca . bhobho devā mahādevaṁ sarvairdevaiḥ sanātanaiḥ .. 17..
samprāpya sāmprataṁ sarvaṁ kariṣyāmi divaukasām .
devā jalaṁdharaṁ hantuṁ nirmitaṁ hi purāriṇā .. 18..
लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान् ।
सर्वान्धुन्धुमुखान्दैत्यानष्टषष्टिशतान्सुरान् ॥ १९॥
सबान्धवान्क्षणादेव युष्मान् संतारयाम्यहम् ।
labdhvā rathāṅgaṁ tenaiva nihatya ca mahāsurān .
sarvāndhundhumukhāndaityānaṣṭaṣaṣṭiśatānsurān .. 19..
sabāndhavānkṣaṇādeva yuṣmān saṁtārayāmyaham .
सूत उवाच । एवमुक्त्वा सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन् ॥ २०॥
सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम् ।
लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे ॥ २१॥
sūta uvāca . evamuktvā suraśreṣṭhān suraśreṣṭhamanusmaran .. 20..
suraśreṣṭhastadā śreṣṭhaṁ pūjayāmāsa śaṅkaram .
liṅgaṁ sthāpya yathānyāyaṁ himavacchikhare śubhe .. 21..
मेरुपर्वतसंकाशं निर्मितं विश्वकर्मणा ।
त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः ॥ २२॥
meruparvatasaṁkāśaṁ nirmitaṁ viśvakarmaṇā .
tvaritākhyena rudreṇa raudreṇa ca janārdanaḥ .. 22..
स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम् ।
तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च ॥ २३॥
snāpya sampūjya gandhādyairjvālākāraṁ manoramam .
tuṣṭāva ca tadā rudraṁ sampūjyāgnau praṇamya ca .. 23..
देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम् ।
पूजयामास च शिवं प्रणवाद्यं नमोन्तकम् ॥ २४॥
devaṁ nāmnāṁ sahasreṇa bhavādyena yathākramam .
pūjayāmāsa ca śivaṁ praṇavādyaṁ namontakam .. 24..
देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम् ।
प्रतिनाम सपद्मेन पूजयामास शङ्करम् ॥ २५॥
devaṁ nāmnāṁ sahasreṇa bhavādyena maheśvaram .
pratināma sapadmena pūjayāmāsa śaṅkaram .. 25..
अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः ।
स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम् ॥ २६॥
तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम् ।
agnau ca nāmabhirdevaṁ bhavādyaiḥ samidādibhiḥ .
svāhāntairvidhivaddhutvā pratyekamayutaṁ prabhum .. 26..
tuṣṭāva ca punaḥ śambhuṁ bhavādyairbhavamīśvaram .
Стотра и Стотра-вали[править | править код]
श्री विष्णुरुवाच । भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः ॥ २७॥ अर्थितव्यः सदाचारः सर्वशम्भुर्महेश्वरः । ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ॥ २८॥ śrī viṣṇuruvāca . bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ .. 27.. | |||
№ | devanagari | iast | перевод |
1 | भव | bhava | Сущий |
2 | शिव | śiva | Благой |
3 | हर | hara | Разрушитель |
4 | रुद्र | rudra | Ревущий |
5 | पुरुष | puruṣa | Пуруша |
6 | पद्मलोचनः | padmalocana | Лотосоокий |
वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः । गङ्गाधरः शूलधरः परार्थैकप्रयोजनः ॥ २९॥ varīyān varado vandyaḥ śaṅkaraḥ parameśvaraḥ . | |||
सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः । चन्द्रापीडश्चन्द्रमौलिर्विद्वान्विश्वामरेश्वरः ॥ ३०॥ sarvajñaḥ sarvadevādigiridhanvā jaṭādharaḥ . | |||
वेदान्तसारसन्दोहः कपाली नीललोहितः । ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ॥ ३१॥ vedāntasārasandohaḥ kapālī nīlalohitaḥ . | |||
अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः । ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ॥ ३२॥ aṣṭamūrtirviśvamūrtistrivargaḥ svargasādhanaḥ . | |||
वामदेवो महादेवः पाण्डुः परिदृढो दृढः । विश्वरूपो विरूपाक्षो वागीशः शुचिरन्तरः ॥ ३३॥ vāmadevo mahādevaḥ pāṇḍuḥ paridṛḍho dṛḍhaḥ . | |||
सर्वप्रणयसंवादीवृषाङ्को वृषवाहनः । ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः ॥ ३४॥ sarvapraṇayasaṁvādīvṛṣāṅko vṛṣavāhanaḥ . | |||
तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी । कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ॥ ३५॥ tamoharo mahāyogī goptā brahmāṅgahṛjjaṭī . | |||
उन्मत्तवेषश्चक्षुष्योदुर्वासाः स्मरशासनः । दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः ॥ ३६॥ unmattaveṣaścakṣuṣyodurvāsāḥ smaraśāsanaḥ . | |||
अनादिमध्यनिधनो गिरिशो गिरिबान्धवः । कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः ॥ ३७॥ anādimadhyanidhano giriśo giribāndhavaḥ . | |||
सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी । विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ॥ ३८॥ sāmānyadevaḥ kodaṇḍī nīlakaṇṭhaḥ paraśvadhī . | |||
धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित् । उग्रः पशुपतिस्तार्क्ष्यप्रियभक्तः प्रियंवदः ॥ ३९॥ dharmakarmākṣamaḥ kṣetraṁ bhagavān bhaganetrabhit . | |||
दाता दयाकरो दक्षः कपर्दी कामशासनः । श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ॥ ४०॥ dātā dayākaro dakṣaḥ kapardī kāmaśāsanaḥ . | |||
लोककर्ता भूतपतिर्महाकर्ता महौषधी । उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥ ४१॥ lokakartā bhūtapatirmahākartā mahauṣadhī . | |||
नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी । सोमपोऽमृतपः सोमो महानीतिर्महामतिः ॥ ४२॥ nītiḥ sunītiḥ śuddhātmā somasomarataḥ sukhī . | |||
अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः । लोककारो वेदकारः सूत्रकारः सनातनः ॥ ४३॥ ajātaśatrurālokaḥ sambhāvyo havyavāhanaḥ . | |||
महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः । पिनाकपाणिभूदेवः स्वस्तिदः स्वस्तिकृत्सदा ॥ ४४॥ maharṣiḥ kapilācāryo viśvadīptistrilocanaḥ . | |||
त्रिधामा सौभगः शर्वः सर्वज्ञः सर्वगोचरः । ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः ॥ ४५॥ tridhāmā saubhagaḥ śarvaḥ sarvajñaḥ sarvagocaraḥ . | |||
शाखो विशाखो गोशाखः शिवोनैकः क्रतुः समः । गङ्गाप्लवोदको भावः सकलस्थपतिस्थिरः ॥ ४६॥ śākho viśākho gośākhaḥ śivonaikaḥ kratuḥ samaḥ . | |||
विजितात्मा विधेयात्मा भूतवाहनसारथिः । सगणो गणकार्यश्च सुकीर्तिश्छिन्नसंशयः ॥ ४७॥ vijitātmā vidheyātmā bhūtavāhanasārathiḥ . | |||
कामदेवः कामपालो भस्मोद्धूलितविग्रः । भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ॥ ४८॥ kāmadevaḥ kāmapālo bhasmoddhūlitavigraḥ . | |||
समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः । चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः ॥ ४९॥ samāyukto nivṛttātmā dharmayuktaḥ sadāśivaḥ . | |||
दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः । अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ॥ ५०॥ durgamo durlabho durgaḥ sarvāyudhaviśāradaḥ . | |||
शुभाङ्गो लोकसारङ्गो जगदीशोऽमृताशनः । भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ ५१॥ śubhāṅgo lokasāraṅgo jagadīśo'mṛtāśanaḥ . | |||
हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः । महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः ॥ ५२॥ hiraṇyaretāstaraṇirmarīcirmahimālayaḥ . | |||
व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः । अमृताङ्गोऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः ॥ ५३॥ vyāghracarmadharo vyālī mahābhūto mahānidhiḥ . | |||
पञ्चविंशतितत्त्वज्ञः पारिजातः परावरः । सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः ॥ ५४॥ pañcaviṁśatitattvajñaḥ pārijātaḥ parāvaraḥ . | |||
वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः । आश्रमः क्षपणः क्षामो ज्ञानवानचलाचलः ॥ ५५॥ varṇāśramagururvarṇī śatrujicchatrutāpanaḥ . | |||
प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः । धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः ॥ ५६॥ pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ . | |||
अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः । अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः ॥ ५७॥ anantadṛṣṭirānando daṇḍo damayitā damaḥ . | |||
वीतरागो विनीतात्मा तपस्वी भूतभावनः । उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ॥ ५८॥ vītarāgo vinītātmā tapasvī bhūtabhāvanaḥ . | |||
कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः । तपस्वी तारको धीमान् प्रधानप्रभुरव्ययः ॥ ५९॥ kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ . | |||
लोकपालोऽन्तर्हितात्मा कल्यादिः कमलेक्षणः । वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः ॥ ६०॥ lokapālo'ntarhitātmā kalyādiḥ kamalekṣaṇaḥ . | |||
चन्द्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः । भक्तिगम्यः परं ब्रह्म मृगबाणार्पणोऽनघः ॥ ६१॥ candraḥ sūryaḥ śaniḥ keturvirāmo vidrumacchaviḥ . | |||
अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः । सर्वकर्माचलस्त्वष्टा माङ्गल्यो मङ्गलावृतः ॥ ६२॥ adrirājālayaḥ kāntaḥ paramātmā jagadguruḥ . | |||
महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः । अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥ ६३॥ mahātapā dīrghatapāḥ sthaviṣṭhaḥ sthaviro dhruvaḥ . | |||
संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः । अजः सर्वेश्वरः स्निग्धो महारेता महाबलः ॥ ६४॥ saṁvatsarakaro mantraḥ pratyayaḥ sarvadarśanaḥ . | |||
योगी योग्यो महारेताः सिद्धः सर्वादिरग्निदः । वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥ ६५॥ yogī yogyo mahāretāḥ siddhaḥ sarvādiragnidaḥ . | |||
अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् । कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः ॥ ६६॥ amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān . | |||
भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः । अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः ॥ ६७॥ bhrājiṣṇurbhojanaṁ bhoktā lokanetā durādharaḥ . | |||
कालयोगी महानादो महोत्साहो महाबलः । महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः ॥ ६८॥ kālayogī mahānādo mahotsāho mahābalaḥ . | |||
निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमान्सर्वहार्यमितो गतिः ॥ ६९॥ niśācaraḥ pretacārī mahāśaktirmahādyutiḥ . | |||
बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः । ओजस्तेजो द्युतिकरो नर्तकः सर्वकामकः ॥ ७०॥ bahuśruto bahumayo niyatātmā bhavodbhavaḥ . | |||
नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः । बुद्धः स्पष्टाक्षरो मन्त्रः सन्मानः सारसम्प्लवः ॥ ७१॥ nṛtyapriyo nṛtyanṛtyaḥ prakāśātmā pratāpanaḥ . | |||
युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः । इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः ॥ ७२॥ yugādikṛdyugāvarto gambhīro vṛṣavāhanaḥ . | |||
अपांनिधिरधिष्ठानं विजयो जयकालवित् । प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ७३॥ apāṁnidhiradhiṣṭhānaṁ vijayo jayakālavit . | |||
विरोचनः सुरगणो विद्येशो विबुधाश्रयः । बालरूपो बलोन्माथी विवर्तो गहनो गुरुः ॥ ७४॥ virocanaḥ suragaṇo vidyeśo vibudhāśrayaḥ . | |||
करणं कारणं कर्ता सर्वबन्धविमोचनः । विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः ॥ ७५॥ karaṇaṁ kāraṇaṁ kartā sarvabandhavimocanaḥ . | |||
व्यवसायो व्यवस्थानः स्थानदो जगदादिजः । दुन्दुभो ललितो विश्वो भवात्मात्मनिसंस्थितः ॥ ७६॥ vyavasāyo vyavasthānaḥ sthānado jagadādijaḥ . | |||
वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट् । वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः ॥ ७७॥ vīreśvaro vīrabhadro vīrahā vīrabhṛdvirāṭ . | |||
आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः । वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः ॥ ७८॥ ājñādhārastriśūlī ca śipiviṣṭaḥ śivālayaḥ . | |||
अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः । मघवान्कौशिको गोमान् विश्रामः सर्वशासनः ॥ ७९॥ abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ . | |||
ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् । अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी ॥ ८०॥ lalāṭākṣo viśvadehaḥ sāraḥ saṁsāracakrabhṛt . | |||
परमार्थः परमयः शम्बरो व्याघ्रकोऽनलः । रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः ॥ ८१॥ paramārthaḥ paramayaḥ śambaro vyāghrako'nalaḥ . | |||
रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो जनः । युक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः ॥ ८२॥ ravirvirocanaḥ skandhaḥ śāstā vaivasvato janaḥ . | |||
कैलासपतिकामारिः सविता रविलोचनः । विद्वत्तमो वीतभयो विश्वहर्ताऽनिवारितः ॥ ८३॥ kailāsapatikāmāriḥ savitā ravilocanaḥ . | |||
नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः । दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः ॥ ८४॥ nityo niyatakalyāṇaḥ puṇyaśravaṇakīrtanaḥ . | |||
उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः । अनादिर्भूर्भुवो लक्ष्मीः किरीटित्रिदशाधिपः ॥ ८५॥ uttārako duṣkṛtihā durdharṣo duḥsaho'bhayaḥ . | |||
विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः । जननो जनजन्मादिः प्रीतिमान्नीतिमान्नयः ॥ ८६॥ viśvagoptā viśvabhartā sudhīro rucirāṅgadaḥ . | |||
विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः । प्रणवः सप्तधाचारो महाकायो महाधनुः ॥ ८७॥ viśiṣṭaḥ kāśyapo bhānurbhīmo bhīmaparākramaḥ . | |||
जन्माधिपो महादेवः सकलागमपारगः । तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः ॥ ८८॥ janmādhipo mahādevaḥ sakalāgamapāragaḥ . | |||
ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः । यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः ॥ ८९॥ ṛṣirbrāhmaṇavijjiṣṇurjanmamṛtyujarātigaḥ . | |||
महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः । पञ्चब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः ॥ ९०॥ mahendro durbharaḥ senī yajñāṅgo yajñavāhanaḥ . | |||
आत्मयोनिरनाद्यन्तो षड्विंशत्सप्तलोकधृक् । गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ॥ ९१॥ ātmayoniranādyanto ṣaḍviṁśatsaptalokadhṛk . | |||
शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा । अमोघोऽरिष्टमथनो मुकुन्दो विगतज्वरः ॥ ९२॥ śiśurgirirataḥ samrāṭ suṣeṇaḥ suraśatruhā . | |||
स्वयंज्योतिरनुज्योतिरात्मज्योतिरचञ्चलः । पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः ॥ ९३॥ svayaṁjyotiranujyotirātmajyotiracañcalaḥ . | |||
ज्ञानस्कन्धो महाज्ञानी निरुत्पत्तिरुपप्लवः । भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः ॥ ९४॥ jñānaskandho mahājñānī nirutpattirupaplavaḥ . | |||
उदारकीर्तिरुद्योगी सद्योगीसदसन्मयः । नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः ॥ ९५॥ udārakīrtirudyogī sadyogīsadasanmayaḥ . | |||
पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः । हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः ॥ ९६॥ pavitrapāṇiḥ pāpārirmaṇipūro manogatiḥ . | |||
विष्णुर्ग्रहपतिः कृष्णः समर्थोऽनर्थनाशनः । अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः ॥ ९७॥ viṣṇurgrahapatiḥ kṛṣṇaḥ samartho'narthanāśanaḥ . | |||
ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः । जगद्धितैषिसुगतः कुमारः कुशलागमः ॥ ९८॥ brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ . | |||
हिरण्यवर्णो ज्योतिष्मान्नानाभूतधरो ध्वनिः । अरोगो नियमाध्यक्षो विश्वामित्रो द्विजोत्तमः ॥ ९९॥ hiraṇyavarṇo jyotiṣmānnānābhūtadharo dhvaniḥ . | |||
बृहज्योतिः सुधामा च महाज्योतिरनुत्तमः । मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥ १००॥ bṛhajyotiḥ sudhāmā ca mahājyotiranuttamaḥ . | |||
पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः । निरावरणधर्मज्ञो विरिञ्चो विष्टरश्रवाः ॥ १०१॥ pulastyaḥ pulaho'gastyo jātūkarṇyaḥ parāśaraḥ . | |||
आत्मभूरनिरुद्धोऽत्रि ज्ञानमूर्तिर्महायशाः । लोकचूडामणिर्वीरश्चण्डसत्यपराक्रमः ॥ १०२॥ ātmabhūraniruddho'tri jñānamūrtirmahāyaśāḥ . | |||
व्यालकल्पो महाकल्पो महावृक्षः कलाधरः । अलंकरिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः ॥ १०३॥ vyālakalpo mahākalpo mahāvṛkṣaḥ kalādharaḥ . | |||
आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः । असंसृष्टोऽतिथिः शक्रः प्रमाथी पापनाशनः ॥ १०४॥ āśuśabdapatirvegī plavanaḥ śikhisārathiḥ . | |||
वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः । जर्यो जराधिशमनो लोहितश्च तनूनपात् ॥ १०५॥ vasuśravāḥ kavyavāhaḥ pratapto viśvabhojanaḥ . | |||
पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा । निदाघस्तपनो मेघः पक्षः परपुरञ्जयः ॥ १०६॥ pṛṣadaśvo nabhoyoniḥ supratīkastamisrahā . | |||
मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः । वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥ १०७॥ mukhānilaḥ suniṣpannaḥ surabhiḥ śiśirātmakaḥ . | |||
अङ्गिरामुनिरात्रेयो विमलो विश्ववाहनः । पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः ॥ १०८॥ aṅgirāmunirātreyo vimalo viśvavāhanaḥ . | |||
मनो बुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः । तेजोनिधिर्ज्ञाननिधिर्विपाको विघ्नकारकः ॥ १०९॥ mano buddhirahaṁkāraḥ kṣetrajñaḥ kṣetrapālakaḥ . | |||
अधरोऽनुत्तरोज्ञेयो ज्येष्ठो निःश्रेयसालयः । शैलो नगस्तनुर्दोहो दानवारिररिन्दमः ॥ ११०॥ adharo'nuttarojñeyo jyeṣṭho niḥśreyasālayaḥ . | |||
चारुधीर्जनकश्चारु विशल्यो लोकशल्यकृत् । चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥ १११॥ cārudhīrjanakaścāru viśalyo lokaśalyakṛt . | |||
आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः । बहुरूपो महारूपः सर्वरूपश्चराचरः ॥ ११२॥ āmnāyo'tha samāmnāyastīrthadevaśivālayaḥ . | |||
न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः । सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ॥ ११३॥ nyāyanirvāhako nyāyo nyāyagamyo nirañjanaḥ . | |||
मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः । पिङ्गलाक्षोऽथ हर्यक्षो नीलग्रीवो निरामयः ॥ ११४॥ muṇḍo virūpo vikṛto daṇḍī dānto guṇottamaḥ . | |||
सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत् । पद्मासनः परंज्योतिः परावरफलप्रदः ॥ ११५॥ sahasrabāhuḥ sarveśaḥ śaraṇyaḥ sarvalokabhṛt . | |||
पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः । परावरज्ञो बीजेशः सुमुखः सुमहास्वनः ॥ ११६॥ padmagarbho mahāgarbho viśvagarbho vicakṣaṇaḥ . | |||
देवासुरगुरुर्देवो देवासुरनमस्कृतः । देवासुरमहामात्रो देवासुरमहाश्रयः ॥ ११७॥ devāsuragururdevo devāsuranamaskṛtaḥ . | |||
देवादिदेवो देवर्षिर्देवासुरवरप्रदः । देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः ॥ ११८॥ devādidevo devarṣirdevāsuravarapradaḥ . | |||
सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः । ईड्योऽनीशः सुरव्याघ्रो देवसिंहो दिवाकरः ॥ ११९॥ sarvadevamayo'cintyo devatātmātmasambhavaḥ . | |||
विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः । शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः ॥ १२०॥ vibudhāgravaraśreṣṭhaḥ sarvadevottamottamaḥ . | |||
जयस्तम्भो विशिष्टम्भो नरसिंहनिपातनः । ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ॥ १२१॥ jayastambho viśiṣṭambho narasiṁhanipātanaḥ . | |||
नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः । लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः ॥ १२२॥ nandī nandīśvaro nagno nagnavratadharaḥ śuciḥ . | |||
स्ववशः सवशः स्वर्गः स्वरः स्वरमयः स्वनः । बीजाध्यक्षो बीजकर्ता धनकृद्धर्मवर्धनः ॥ १२३॥ svavaśaḥ savaśaḥ svargaḥ svaraḥ svaramayaḥ svanaḥ . | |||
दम्भोऽदम्भो महादम्भः सर्वभूतमहेश्वरः । श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः ॥ १२४॥ dambho'dambho mahādambhaḥ sarvabhūtamaheśvaraḥ . | |||
लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः । अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः ॥ १२५॥ lokottarasphuṭālokastryambako nāgabhūṣaṇaḥ . | |||
वीतदोषोऽक्षयगुणो दक्षारिः पूषदन्तहृत् । धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः ॥ १२६॥ vītadoṣo'kṣayaguṇo dakṣāriḥ pūṣadantahṛt . | |||
आधारः सकलाधारः पाण्डुराभो मृडो नटः । पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ॥ १२७॥ ādhāraḥ sakalādhāraḥ pāṇḍurābho mṛḍo naṭaḥ . | |||
सामगेयः प्रियकरः पुण्यकीर्तिरनामयः । मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः ॥ १२८॥ sāmageyaḥ priyakaraḥ puṇyakīrtiranāmayaḥ . | |||
जीवितान्तकरो नित्यो वसुरेता वसुप्रियः । सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः ॥ १२९॥ jīvitāntakaro nityo vasuretā vasupriyaḥ . | |||
मानी मान्यो महाकालः सद्भूतिः सत्परायणः । चन्द्रसञ्जीवनः शास्ता लोकगूढोऽमराधिपः ॥ १३०॥ mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ . | |||
लोकबन्धुर्लोकनाथः कृतज्ञः कृतिभूषणः । अनपाय्यक्षरः कान्तः सर्वशास्त्रभृतां वरः ॥ १३१॥ lokabandhurlokanāthaḥ kṛtajñaḥ kṛtibhūṣaṇaḥ . | |||
तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः । शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः ॥ १३२॥ tejomayo dyutidharo lokamāyo'graṇīraṇuḥ . | |||
ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः । तुम्बवीणी महाकायो विशोकः शोकनाशनः ॥ १३३॥ jyotirmayo nirākāro jagannātho jaleśvaraḥ . | |||
त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धिरथाक्षजः । अव्यक्तलक्षणोऽव्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ॥ १३४॥ trilokātmā trilokeśaḥ śuddhaḥ śuddhirathākṣajaḥ . | |||
वरशीलो वरतुलो मानो मानधनो मयः । ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः ॥ १३५॥ varaśīlo varatulo māno mānadhano mayaḥ . | |||
वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः । कैलासशिखरावासी सर्वावासी सतां गतिः ॥ १३६॥ vedhā dhātā vidhātā ca attā hartā caturmukhaḥ . | |||
हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता । भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः ॥ १३७॥ hiraṇyagarbho hariṇaḥ puruṣaḥ pūrvajaḥ pitā . | |||
संयोगी योगविद्ब्रह्मा ब्रह्मण्यो ब्राह्मणप्रियः । देवप्रियो देवनाथो देवज्ञो देवचिन्तकः ॥ १३८॥ saṁyogī yogavidbrahmā brahmaṇyo brāhmaṇapriyaḥ . | |||
विषमाक्षः कलाध्यक्षो वृषाङ्को वृषवर्धनः । निर्मदो निरहंकारो निर्मोहो निरुपद्रवः ॥ १३९॥ viṣamākṣaḥ kalādhyakṣo vṛṣāṅko vṛṣavardhanaḥ . | |||
दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः । सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः ॥ १४०॥ darpahā darpito dṛptaḥ sarvartuparivartakaḥ . | |||
भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः । अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः ॥ १४१॥ bhūtabhavyabhavannāthaḥ prabhavo bhrāntināśanaḥ . | |||
निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः । सत्त्ववान्सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः ॥ १४२॥ niṣkaṇṭakaḥ kṛtānando nirvyājo vyājamardanaḥ . | |||
अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत् । सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणोऽनलः ॥ १४३॥ akampito guṇagrāhī naikātmā naikakarmakṛt . | |||
स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः । अपराजितः सर्वसहो विदग्धः सर्ववाहनः ॥ १४४॥ skandhaḥ skandhadharo dhuryaḥ prakaṭaḥ prītivardhanaḥ . | |||
अधृतः स्वधृतः साध्यः पूर्तमूर्तिर्यशोधरः । वराहशृङ्गधृग्वायुर्बलवानेकनायकः ॥ १४५॥ adhṛtaḥ svadhṛtaḥ sādhyaḥ pūrtamūrtiryaśodharaḥ . | |||
श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक् । श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः ॥ १४६॥ śrutiprakāśaḥ śrutimānekabandhuranekadhṛk . | |||
भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः । अकायो भक्तकायस्थः कालज्ञानी कलावपुः ॥ १४७॥ bhūśayo bhūtikṛdbhūtirbhūṣaṇo bhūtavāhanaḥ . | |||
सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः । परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः ॥ १४८॥ satyavratamahātyāgī niṣṭhāśāntiparāyaṇaḥ . | |||
अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा । स्वभावरुद्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः ॥ १४९॥ anirviṇṇo guṇagrāhī kalaṅkāṅkaḥ kalaṅkahā . | |||
शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली । मेखली कवची खड्गी मायी संसारसारथिः ॥ १५०॥ śikhaṇḍī kavacī śūlī caṇḍī muṇḍī ca kuṇḍalī . | |||
अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः । असंख्येयोऽप्रमेयात्मा वीर्यवान्कार्यकोविदः ॥ १५१॥ amṛtyuḥ sarvadṛk siṁhastejorāśirmahāmaṇiḥ . | |||
वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः । अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ॥ १५२॥ vedyo vedārthavidgoptā sarvācāro munīśvaraḥ . | |||
सुरेशः शरणं सर्वः शब्दब्रह्मसतां गतिः । कालभक्षः कलङ्कारिः कङ्कणीकृतवासुकिः ॥ १५३॥ sureśaḥ śaraṇaṁ sarvaḥ śabdabrahmasatāṁ gatiḥ . | |||
महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः । द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ॥ १५४॥ maheṣvāso mahībhartā niṣkalaṅko viśṛṅkhalaḥ . | |||
निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः । एकज्योतिर्निरातङ्को नरो नारायणप्रियः ॥ १५५॥ nivṛttaḥ saṁvṛtaḥ śilpo vyūḍhorasko mahābhujaḥ . | |||
निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः । स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः ॥ १५६॥ nirlepo niṣprapañcātmā nirvyagro vyagranāśanaḥ . | |||
निरवद्यपदोपायो विद्याराशिरविक्रमः । प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः ॥ १५७॥ niravadyapadopāyo vidyārāśiravikramaḥ . | |||
धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः । परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः ॥ १५८॥ रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलम्बनः ॥ dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ . |
Пхала-стути[править | править код]
सूत उवाच । एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम् ॥ १५९॥
स्नापयामास च विभुः पूजयामास पङ्कजैः ।
परीक्षार्थं हरेः पूजाकमलेषु महेश्वरः ॥ १६०॥
sūta uvāca . evaṁ nāmnāṁ sahasreṇa tuṣṭāva vṛṣabhadhvajam .. 159..
snāpayāmāsa ca vibhuḥ pūjayāmāsa paṅkajaiḥ .
parīkṣārthaṁ hareḥ pūjākamaleṣu maheśvaraḥ .. 160..
गोपयामासकमलं तदैकं भुवनेश्वरः ।
हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयन् ॥ १६१॥
gopayāmāsakamalaṁ tadaikaṁ bhuvaneśvaraḥ .
hṛtapuṣpo haristatra kimidaṁ tvabhyacintayan .. 161..
ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम् ।
पूजयामास भावेन नाम्ना तेन जगद्गुरुम् ॥ १६२॥
jñātvā svanetramuddhṛtya sarvasattvāvalambanam .
pūjayāmāsa bhāvena nāmnā tena jagadgurum .. 162..
ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम् ।
तस्मादवतताराशु मण्डलात्पावकस्य च ॥ १६३॥
tatastatra vibhurdṛṣṭvā tathābhūtaṁ haro harim .
tasmādavatatārāśu maṇḍalātpāvakasya ca .. 163..
कोटिभास्करसंकाशं जटामुकुटमण्डितम् ।
ज्वालामालावृतं दिव्यं तीक्ष्णदंष्ट्रं भयङ्करम् ॥ १६४॥
koṭibhāskarasaṁkāśaṁ jaṭāmukuṭamaṇḍitam .
jvālāmālāvṛtaṁ divyaṁ tīkṣṇadaṁṣṭraṁ bhayaṅkaram .. 164..
शूलटङ्कगदाचक्रकुन्तपाशधरं हरम् ।
वरदाभयहस्तं च दीपिचर्मोत्तरीयकम् ॥ १६५॥
śūlaṭaṅkagadācakrakuntapāśadharaṁ haram .
varadābhayahastaṁ ca dīpicarmottarīyakam .. 165..
इत्थम्भूतं तदा दृष्ट्वा भवं भस्मविभूषितम् ।
हृष्टो नमश्चकाराशु देवदेवं जनार्दनः ॥ १६६॥
itthambhūtaṁ tadā dṛṣṭvā bhavaṁ bhasmavibhūṣitam .
hṛṣṭo namaścakārāśu devadevaṁ janārdanaḥ .. 166..
दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम् ।
चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा ॥ १६७॥
dudruvustaṁ parikramya sendrā devāstrilocanam .
cacāla brahmabhuvanaṁ cakampe ca vasundharā .. 167..
ददाह तेजस्तच्छम्भोः प्रान्तं वै शतयोजनम् ।
अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले ॥ १६८॥
dadāha tejastacchambhoḥ prāntaṁ vai śatayojanam .
adhastāccordhvataścaiva hāhetyakṛta bhūtale .. 168..
तदा प्राह महादेवः प्रहसन्निव शङ्करः ।
सम्प्रेक्ष्य प्रणयाद्विष्णुं कृताञ्जलिपुटं स्थितम् ॥ १६९॥
tadā prāha mahādevaḥ prahasanniva śaṅkaraḥ .
samprekṣya praṇayādviṣṇuṁ kṛtāñjalipuṭaṁ sthitam .. 169..
ज्ञातं मयेदमधुना देवकार्यं जनार्दन ।
सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ॥ १७०॥
jñātaṁ mayedamadhunā devakāryaṁ janārdana .
sudarśanākhyaṁ cakraṁ ca dadāmi tava śobhanam .. 170..
यद्रूपं भवता दृष्टं सर्वलोकभयङ्करम् ।
हिताय तव यत्नेन तव भावाय सुव्रत ॥ १७१॥
yadrūpaṁ bhavatā dṛṣṭaṁ sarvalokabhayaṅkaram .
hitāya tava yatnena tava bhāvāya suvrata .. 171..
शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम् ।
शान्तस्य चास्त्रं शान्तं स्याच्छान्तेनास्त्रेण किं फलम् ॥ १७२॥
śāntaṁ raṇājire viṣṇo devānāṁ duḥkhasādhanam .
śāntasya cāstraṁ śāntaṁ syācchāntenāstreṇa kiṁ phalam .. 172..
शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनाम् ।
योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः ॥ १७३॥
śāntasya samare cāstraṁ śāntireva tapasvinām .
yoddhuḥ śāntyā balacchedaḥ parasya balavṛddhidaḥ .. 173..
देवैरशान्तैर्यद्रूपं मदीयं भावयाव्ययम् ।
किमायुधेन कार्यं वै योद्धुं देवारिसूदन ॥ १७४॥
devairaśāntairyadrūpaṁ madīyaṁ bhāvayāvyayam .
kimāyudhena kāryaṁ vai yoddhuṁ devārisūdana .. 174..
क्षमा युधि न कार्यं वै योद्धुं देवारिसूदन ।
अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे ॥ १७५॥
kṣamā yudhi na kāryaṁ vai yoddhuṁ devārisūdana .
anāgate vyatīte ca daurbalye svajanotkare .. 175..
अकालिके त्वधर्मे च अनर्थेवारिसूदन ।
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ॥ १७६॥
akālike tvadharme ca anarthevārisūdana .
evamuktvā dadau cakraṁ sūryāyutasamaprabham .. 176..
नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम् ।
तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रतम् ॥ १७७॥
netraṁ ca netā jagatāṁ prabhurvai padmasannibham .
tadāprabhṛti taṁ prāhuḥ padmākṣamiti suvratam .. 177..
दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः ।
पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह ॥ १७८॥
dattvainaṁ nayanaṁ cakraṁ viṣṇave nīlalohitaḥ .
pasparśa ca karābhyāṁ vai suśubhābhyāmuvāca ha .. 178..
वरदोहं वरश्रेष्ठ वरान्वरय चेप्सितान् ।
भक्त्या वशीकृतो नूनं त्वयाहं पुरुषोत्तम ॥ १७९॥
varadohaṁ varaśreṣṭha varānvaraya cepsitān .
bhaktyā vaśīkṛto nūnaṁ tvayāhaṁ puruṣottama .. 179..
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् ।
त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् ॥ १८०॥
ityukto devadevena devadevaṁ praṇamya tam .
tvayi bhaktirmahādeva prasīda varamuttamam .. 180..
नान्यमिच्छामि भक्तानामार्तयो नास्ति यत्प्रभो ।
तच्छ्रुत्वा वचनं तस्य दयावान् सुतरां भवः ॥ १८१॥
nānyamicchāmi bhaktānāmārtayo nāsti yatprabho .
tacchrutvā vacanaṁ tasya dayāvān sutarāṁ bhavaḥ .. 181..
पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः ।
प्राह चैवं महादेवः परमात्मानमच्युतम् ॥ १८२॥
pasparśa ca dadau tasmai śraddhāṁ śītāṁśubhūṣaṇaḥ .
prāha caivaṁ mahādevaḥ paramātmānamacyutam .. 182..
मयि भक्तश्च वन्द्यश्च पूज्यश्चैव सुरासुरैः ।
भविष्यति न संदेहो मत्प्रसादात्सुरोत्तम ॥ १८३॥
mayi bhaktaśca vandyaśca pūjyaścaiva surāsuraiḥ .
bhaviṣyati na saṁdeho matprasādātsurottama .. 183..
यदा सती दक्षपुत्री विनिन्द्येव सुलोचना ।
मातरं पितरं दक्षं भविष्यति सुरेश्वरी ॥ १८४॥
yadā satī dakṣaputrī vinindyeva sulocanā .
mātaraṁ pitaraṁ dakṣaṁ bhaviṣyati sureśvarī .. 184..
दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत ।
भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम् ॥ १८५॥
divyā haimavatī viṣṇo tadā tvamapi suvrata .
bhaginīṁ tava kalyāṇīṁ devīṁ haimavatīmumām .. 185..
नियोगाद्ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम् ।
मत्सम्बन्धी च लोकानां मध्ये पूज्यो भविष्यसि ॥ १८६॥
niyogādbrahmaṇaḥ sādhvīṁ pradāsyasi mamaiva tām .
matsambandhī ca lokānāṁ madhye pūjyo bhaviṣyasi .. 186..
मां दिव्येन च भावेन तदा प्रभृति शङ्करम् ।
द्रक्ष्यसे च प्रसन्नेन मित्रभूतमिवात्मना ॥ १८७॥
māṁ divyena ca bhāvena tadā prabhṛti śaṅkaram .
drakṣyase ca prasannena mitrabhūtamivātmanā .. 187..
इत्युक्त्वान्तर्दधे रुद्रो भगवान्नीललोहितः ।
जनार्दनोपि भगवान्देवानामपि सन्निधौ ॥ १८८॥
ityuktvāntardadhe rudro bhagavānnīlalohitaḥ .
janārdanopi bhagavāndevānāmapi sannidhau .. 188..
अयाचत महादेवं ब्रह्माणं मुनिभिः समम् ।
मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम् ॥ १८९॥
ayācata mahādevaṁ brahmāṇaṁ munibhiḥ samam .
mayā proktaṁ stavaṁ divyaṁ padmayone suśobhanam .. 189..
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ।
प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात् ॥ १९०॥
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān .
pratināmni hiraṇyasya dattasya phalamāpnuyāt .. 190..
अश्वमेधसहस्रेण फलं भवति तस्य वै ।
घृताद्यैः स्नापयेद्रुद्रं स्थाल्या वै कलशैः शुभैः ॥ १९१॥
aśvamedhasahasreṇa phalaṁ bhavati tasya vai .
ghṛtādyaiḥ snāpayedrudraṁ sthālyā vai kalaśaiḥ śubhaiḥ .. 191..
नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम् ।
सोपि यज्ञसहस्रस्य फलं लब्ध्वा सुरेश्वरैः ॥ १९२॥
nāmnāṁ sahasreṇānena śraddhayā śivamīśvaram .
sopi yajñasahasrasya phalaṁ labdhvā sureśvaraiḥ .. 192..
पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै ।
तथास्त्विति तथा प्राह पद्मयोनेर्जनार्दनम् ॥ १९३॥
pūjyo bhavati rudrasya prītirbhavati tasya vai .
tathāstviti tathā prāha padmayonerjanārdanam .. 193..
जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम् ।
तस्मान्नाम्नां सहस्रेण पूजयेदनघो द्विजाः ॥ १९४॥
जपेएन्नाम्नां सहस्रं च स याति परमां गतिम् ॥ १९५॥
jagmatuḥ praṇipatyainaṁ devadevaṁ jagadgurum .
tasmānnāmnāṁ sahasreṇa pūjayedanagho dvijāḥ .. 194..
japeennāmnāṁ sahasraṁ ca sa yāti paramāṁ gatim .. 195..
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः पूजनाद्विष्णुचक्रलाभो नामाष्टनवतितमोध्यायः ॥
.. iti śrīliṅgamahāpurāṇe pūrvabhāge sahasranāmabhiḥ pūjanādviṣṇucakralābho nāmāṣṭanavatitamodhyāyaḥ ..